संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाब

पंजाबी-विश्वविद्यालयस्य ‘संस्कृत एवं पालि’ इत्यस्मिन् विभागे पूर्वछात्र-सम्मेलनं सम्पन्नम्

पंजाबी-विश्वविद्यालयस्य परम्पराम् अनुसरन् बुधवासरे पूर्वछात्रसम्मेलनं सम्पन्नम् अभवत् । यत्र ‘संस्कृत एवं पालि’इत्यस्मिन् विभागस्तरेपि स्वपूर्वछात्रेभ्य: कार्यक्रम: आयोजित: आसीत् । विभागस्य पूर्वछात्रसंगठनस्य प्रमुख: डॉ. पुष्पेन्द्रजोशीमहोदय: अवदत् यत् पूर्वछात्र-सम्मेलनस्य नैका: लाभा: सन्ति । अनेन पूर्वछात्रै: सह वर्तमानछात्राणां परिचय:, तेषां जीवनयात्रा, जीविकार्जनोपायादीनां विषये छात्राणां स्पष्टता भवति एव अपितु परस्परसामाजिक-वैषयिकसमरसतापि आगच्छति । येन एतादृशानि सम्मेलनानि छात्रेभ्य:, विभागाय, विश्वविद्यालयाय च लाभादायकानि भवन्ति ।

विभागस्य अध्यक्ष: डॉ. वीरेन्द्रकुमारेण अपि छात्रा: सम्बोधिता: । यत्र तै: छात्रशिक्षकसम्बन्धविषयकानि नैकानि उदाहरणानि प्रस्तुतानि । यैर्माध्यमेन सर्वे सतीर्थ्या: संस्कृतोत्थानाय कार्यं कर्तुं प्रोत्साहिता: । अस्मिन् कार्यक्रमे पंजाब-संस्कृतभारत्या: सहमन्त्री अजयकुमार-आर्येण सहितम् ओमनदीपशर्मा, अनामिका, गगनदीपपाठक:, मनोजकुमार:, अंङ्गराज:, संदीप: , गीताञ्जली,मीना ,कवितादिसहितं नैका: पूर्वछात्रा: समुपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button