पंजाबसंस्कृत भारती
संस्कृतभारतीद्वारा व्याख्यानसत्रम् आयोजितं

अजयकुमार-आर्य:। पञ्जाबः । पटियाला जनपदे नाभा-नगरस्य नाभा-प्रिपेरेट्री-हाई-स्कूल अन्तर्गते संस्कृतभारती – द्वारा आयोजित-व्याख्यानसत्रं सञ्जातम् । सत्रेऽस्मिन् मुख्य: वक्ता संस्कृतभारत्या: विस्तारकः मनीषः आसीत्। मनीषेण ‘संस्कृतं किमर्थम् आवश्यकम् अस्ति , संस्कृत-पठनस्य को लाभः, संस्कृतं कथं वैज्ञानिकी भाषा अस्ति’, एतेषां विषयमधिकृत्य व्याख्यानं दत्तम्। विद्यालयस्य प्रधानाचार्या मनप्रीत-कौर-मझैल आगतस्य मनीषविस्तारकस्य धन्यवादं कृतवती । सत्रेऽस्मिन् छात्राणां सङ्ख्या ५४ आसीत्। सत्रेऽस्मिन् तत्रत्याः शिक्षकाः मोनिका सारवाल:, गुरजीतकौर:, शबीरखानः, शमीमः, मीना शर्मा, रीतु शर्मा, नवनीतकौरः, प्रियङ्का, सोनी, रन्धावा, इत्यादयः समुपस्थिता: आसन्।
Follow Us







