पटियालास्थिते आयुर्वेदिकमहाविद्यालये सञ्चाल्यमानस्य सम्भाषणशिबिरस्य समारोपः

अजयकुमार-आर्य:। पटियालास्थिते आयुर्वेदिकमहाविद्यालये चाल्यमानस्य सम्भाषणशिबिरस्य समारोपः अद्य अभवत्। अस्मिन् कार्यक्रमे डॉ. वीरेन्द्रकुमारः प्रान्ताध्यक्षः संस्कृतभारतीपञ्जाबः मुख्यवक्तृरूपेण सम्प्राप्तः। प्रान्तसहमन्त्री अजय-आर्यः मुख्यातिथिः रूपेण उपस्थितः अविद्यत। कार्यक्रमस्य शुभारम्भः वन्दनया ध्येयमन्त्रेण च अभवत्। डॉ. गगनदीपः अभ्यागतानां अतिथीनां स्वागतं कृतवान्। स्वसम्बोधने अध्यक्षमहोदयेन बोधितं यत् संस्कृतभाषा आर्युवेदस्य छात्राणां कृते परमावश्यकी वर्तते। विना संस्कृतेन आयुर्वेदस्य मूलं ज्ञातुं न शक्नुमः। ये जनाः संस्कृतं पठन्ति तेषां जीवने प्रेमः करुणा इत्यादिनां भावनानां विकासः भवति। वैद्यः अस्मिन् भूतले साक्षात् ईश्वरः एव अस्ति। सः सहृदयः भवेत् एतत् परमावश्यकम् अस्ति। यः संस्कृतशास्त्राणाम् अध्ययनं करोति तस्य जीवने सहृदयतायाः विकासः स्वयमेव भवति। प्रान्तमन्त्रिणः उक्तं यत् संस्कृतभारती अहर्निश संस्कृतस्य प्रचाराय प्रसाराय च कार्यं करोति अस्याः माध्यमेन अग्रे अपि एतादृशाः कार्यक्रमाः भविष्यन्ति। कार्यक्रमस्य सञ्चालनं संस्कृतप्राध्यापिका डॉ. रीना-तिवारी कृतवती। अस्मिन् अवसरे डॉ. ओमनदीपः शर्मा विभागसंयोजकः, डॉ. राहुलः जिलाशिक्षणप्रमुखः महाविद्यालस्य शिक्षकाः, छात्राश्च उपस्थिताः आसन्।







