डॉ० चन्द्रमोहनबड़थ्वालः स्वमातुः चिरस्मृत्यर्थं शारीरिक-मानसिकविकलांगकल्याणाय पञ्चविंशतिसहस्ररूप्यकाणां धनराशिपत्रं दानं कृतवान्।
भारतीदेवीशैक्षिकन्यासेन झण्डीचौड़कण्वनगरीकोटद्वारे मानसिकशारीरिकदिव्याङ्गबालकानां कल्याणार्थं आयोजनं कृतं🔵 🔵 गेप्सदेवभूमि-उत्कर्षसेवासंस्थयोः संरक्षकः वर्त्तते डा.बडथ्वाल: 🔵

भारतीदेवीशैक्षिकन्यासेन झण्डीचौड़कण्वनगरीकोटद्वारे मानसिकशारीरिकदिव्याङ्गबालकानां कल्याणार्थं आयोजनं कृतं। अस्मिन् पुण्यकार्यक्रमे गेप्स् तथा देवभूमि-उत्कर्षसेवासंस्थयोः संरक्षकः श्रीमान् डॉ० चन्द्रमोहनबड़थ्वालः स्वमातुः चिरस्मृत्यर्थं आयोज्य संस्थायाः संस्थापकाय श्रीकमलेशमहाभागाय पञ्चविंशतिसहस्ररूप्यकाणां धनराशिपत्रं दानं कृतवान्।

कार्यक्रमस्य अध्यक्षता डॉ० रमाकान्तकुकरेतिना कृतम्। मुख्यातिथेः रूपेण “सक्षमसंख्या” संस्थायाः अध्यक्षः श्री योगम्बरसिंहरावतः उपस्थितः आसीत्। संरक्षकः डॉ० बड़थ्वालः दिव्याङ्गसंस्थायाः संचालिकायाः रिनीलखेड़ा-वर्यायाः कृते स्वनिबद्धां नामाक्षरीकवितां पाठयित्वा तां समर्पितवान्। संस्थायां कार्यारता: शिक्षिकाः सेवाभावेन सततम् अस्मिन पुण्ये कार्ये नियोजिताः सन्ति।

ततः मुख्यातिथिना रावत-महाभागेन उक्तं यत् यथा गेप्स् तथा देवभूमि-उत्कर्षसेवासमितिः कार्यं कुर्वन्तौ स्त:, तथा अन्याः अपि संस्थाः अग्रे आगच्छेयुः। एतेन दिव्याङ्गबालकानां सर्वतोन्मुखं कल्याणं साध्येत्।

विशेषातिथेः रूपेण कर्नल श्रीबुद्विबल्लभध्यानिना स्वसंबोधने उक्तं यत् सर्वेषु दिव्याङ्गबालकेषु तादृशी प्रतिभा: विकासनीयाः यथा ते आत्मनिर्भराः स्युः।

कार्यक्रमस्य संचालनं श्रीमान् मनमोहनकाला द्वारा कृतम्। सः गेप्स् तथा देवभूमि-उत्कर्षसेवासमित्यौ विषये वदन् अवदत् यत् एते संस्था: पर्यावरणरक्षणे, नशानिवृत्तौ, वृक्षारोपणे च, गरीबबालकानां हिताय कार्यं कुर्वन्ति। विद्यालयं गत्वा अपि सामान्यज्ञानपरीक्षाः आयोज्य, विजेतृभ्यः प्रथमे स्थाने २१०० रूप्यकाणि, द्वितीये स्थाने १५०० रूप्यकाणि, तृतीये स्थाने ११०० रूप्यकाणि ददति। एतेषां परीक्षा द्वारा छात्राणां सामान्यज्ञानं वर्धते।
अन्ते अध्यक्षीयोद्बोधने डॉ० रमाकान्तकुकरेतिना उक्तं यत् दिव्याङ्गबालकानाम् उन्नत्यर्थं समाजे सर्वे जना: अग्रे आगच्छेयुः, यत् ते अपि समाजस्य मुख्यधारायां सम्मिलन्तु।
अस्मिन सन्दर्भे अभियन्ता श्री जगतसिंहरावतः, सांस्कृतिकप्रभारी श्रीमती रेखाध्यायिनी च अन्ये च बहवः गण्यमानव्यक्तयः उपस्थिताः आसन् ।







