देहली

शिक्षाशास्त्रविभागेन भव्यसत्रान्तसमारोह: आयोजित:

श्रीलालबहादुरशास्त्री-राष्ट्रीयसंस्कृतविश्वविद्यालयस्य शिक्षापीठे शिक्षाशास्त्रविभागेन शिक्षाशास्त्री-शिक्षाचार्यद्वितीयवर्षस्य विद्यार्थिनां कृते सत्रान्तसमारोह: २०२५ तमे वर्षे मेमासस्य १५ दिनाङ्के स्वर्णजयंतीसदनस्य भूत्तलसभागारे भव्यरूपेण समायोजित: ।

एषः कार्यक्रमः माननीय-कुलपतिना प्रो. मुरलीमनोहरपाठक-महोदयेन अध्यक्षतायाम् सम्पन्नः। अस्मिन् सन्दर्भे विश्वविद्यालयस्य कुलसचिवः श्रीमान् सन्तोषकुमारश्रीवास्तवः, शिक्षापीठप्रमुखा प्रो. रचनावर्मामोहनवर्या, छात्रकल्याणपीठप्रमुखः प्रो. शिवशङ्करमिश्रः, शिक्षापीठस्य सर्वे आचार्यगणः च गौरवपूर्णया उपस्थित्या कार्यक्रमं शोभायाः शिखरं नीतवन्तः।

कार्यक्रमे शिक्षाशास्त्री-शिक्षाचार्यप्रथमवर्षेण विद्यार्थिभिः उत्साहपूर्वकं सहभागिता कृता। तेभ्यः मंचसञ्चालनम्, नृत्यम्, सङ्गीतं, सांस्कृतिकप्रस्तुतयः च समारोहम् अतीव शोभनं कृतवन्तः। द्वितीयवर्षीयविद्यार्थिनः स्वद्विवर्षीयानुभवान् मंचे साझां कृत्वा नवीनविद्यार्थिभ्यः उत्साहवर्धनं मार्गदर्शनं च कृतवन्तः।

कुलपतिः प्रो. मुरलीमनोहरपाठक-महोदयः आशीर्वचनरूपेण अवोचत् यत् विश्वविद्यालयस्य विद्यार्थी देशे विद्यमानेषु विद्यालयेषु स्वप्रतिभया विश्वविद्यालयस्य गौरवं वर्धयन्ति। तेन छात्रेभ्यः जीवनपथे सततं प्रगतिं कृत्वा विश्वविद्यालयस्य कीर्तिं विश्वे प्रसारितुं प्रेरणा प्रदत्ता।

प्रो. रचनावर्मामोहन-महोदया विद्यार्थिनः उज्ज्वलभविष्याय शुभाशंसाः दत्त्वा तेषां शिक्षणाभ्यासे, स्काउट-गाइड-क्रीड़ाप्रतियोगितासु च प्राप्तानि उत्कृष्टानि फलं प्रशंसितवती। प्रो. शिवशङ्करमिश्र-महोदयेन अपि विद्यार्थिनः सफलतायै समृद्धये च शुभकामनाः प्रदत्ताः।

कार्यक्रमस्य समापनकाले शिक्षाचार्यद्वितीयवर्षीयः छात्रः मणिरमणः स्वानुभवान् साझा कृत्वा सर्वेषां प्रति कृतज्ञतां प्रकटयामास। अन्ते कार्यक्रमः शान्तिपाठेन सम्पन्नोभूत् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button