पञ्जाबप्रान्ते संस्कृतभारत्याः प्रान्तीयसमीक्षायोजनागोष्ठी सम्पन्ना

गीर्वाणवाणीप्रचारव्रतिनां संस्कृतभारतीकार्यकर्तॄणाम् एका महत्वपूर्णा गोष्ठी पञ्जाबप्रान्तस्य खन्ना-आख्ये नगरे विराजिते श्रीसरस्वतीसंस्कृतमहाविद्यालयेऽस्मिन्नेव सप्ताहे सफला जाता । अस्यां प्रान्तस्य विविधजनपदेभ्यः समागताः प्रायशस्त्रिंशत् सङ्घनिष्ठाः कार्यकर्तारः उत्साहेन भागमगृह्णन् ।
संस्कृतभारत्याः अखिलभारतीयसङ्घटनमन्त्री माननीयः गौतमजयप्रकाशमहाभागः मुख्यातिथिरूपेण स्वीयं मार्गदर्शनं वितीर्य सभां समलञ्चकार । गोष्ठ्यामस्यां प्रथमं तु गतेषु कालेषु पञ्जाबराज्ये प्रवृत्तानां संस्कृतप्रचारकार्याणां विस्तरेण समीक्षा विहिता । तदनन्तरं च भविष्यति काले करणीयानां नूतनकार्याणां सुदृढा रूपरेखा अपि निर्मिता ।

एतदतिरिक्तम् आगामिनि मासे पटियालानगर्यां भाविन्याः महत्याः संस्कृतविचारगोष्ठ्याः आयोजनविषयेऽपि गभीरो विमर्शः समपद्यत । अन्ते च सर्वेषामेकमत्येन इदं निश्चितं यत् सङ्घे शक्तिः कलौ युगे इति सिद्धान्तानुसारेण सङ्घटितप्रयत्नैरेव देववाण्याः समुन्नतिः साधयितुं शक्येति ॥







