पञ्जाबप्रान्तस्य लुधियानानगरे संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं
गुरुनानक-आयुर्वैदिक-चिकित्सालय: एवं चिकित्सकीयमहाविद्यालय:, संस्कृतभारती पञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीया कार्यशालाया संजायते

पञ्जाबराज्ये लुधियानानगरे गोपालपुरस्थिते गुरुनानक-आयुर्वैदिक-चिकित्सालय: एवं चिकित्सकीय महाविद्यालय:, संस्कृतभारती पञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम् ।
उद्घाटनस्य शुभारम्भ: दीपमन्त्रेण दीपप्रज्ज्वालनेन च सञ्जातम्।
अस्मिन् कार्यक्रमे मुख्यातिथिः रूपेण संस्थाध्यक्ष: डॉ यतेन्द्रनाथ शर्मा समुपस्थित: आसीत्। महोदयेन उक्तम् यत् ‘ आयुर्वेदस्य मूल- ग्रन्था: संस्कृत भाषायां सन्ति तदर्थं संस्कृतम् अनिवार्यम् तथा आयुर्वेदस्य एवं संस्कृतस्य रक्षणम् अस्माकं हस्ते अस्ति।
महाविद्यालयस्य प्राचार्या डॉ. मनीषया विस्तारकशिक्षकरूपेण आगतस्य श्रीमत: मनीषस्य स्वागतं कृतम् । प्राचार्यमहोदयया उक्तं यत् ‘ आयुर्वेदः संस्कृतम् इव प्राचीनमस्ति ‘। सर्वेषां कृते एषा कार्यशाला उपयोगिनी भविष्यति । कार्यक्रमेऽस्मिन् महाविद्यालयस्य डॉ. सन्देशः , डॉ. प्रशान्तः , डॉ. वरुणः इत्यादयः समुपस्थिता: आसन् कार्यशालायां षष्ठी-छात्राः भागं गृह्णन्तः सन्ति।







