संस्कृतं लोकभाषां कर्तुं संस्कृतभारतीदेहल्या: सहस्रसम्भाषणशिविराभियानम्
🔵संस्कृतभारती, संस्कृत-अकादमी-दिल्ली इत्यनयोः सहकारेण एकः ऐतिहासिकः यत्नः आरभ्यते 🔵 🔵संस्कृतसम्भाषणशिविर-अभियानम्, २३-०४-२०२५ त: ०३ - ०५_२०२५ दिनांकपर्यन्तं सम्पूर्णदेहल्याम् आयोज्यते🔵

संस्कृतभारती। नवदेहली | १६ अप्रील् २०२५ – संस्कृतभाषा केवलं भाषा नास्ति, अपि तु सा भारतीयसभ्यताया: आत्मा अस्ति—या अस्माकं संस्कृतिम्, परम्पराम्, सनातनं ज्ञानं च स्वगर्भे धारयति। अस्यै एव समृद्धये जनं जनं पुनः संयोजयितुं, संस्कृतभाषां जीवन्तं, व्यवहारभाषारूपेण प्रतिष्ठापयितुं च, संस्कृतभारती, संस्कृत-अकादमी-दिल्ली इत्यनयोः सहकारेण एकः ऐतिहासिकः यत्नः आरभ्यते—संस्कृतसम्भाषणशिविर-अभियानम्, यत् २३-०४-२०२५ त: ०३ – ०५_२०२५ दिनांकपर्यन्तं सम्पूर्णदेहल्याम् आयोज्यते।

एषः कार्यक्रमः केवलं साधारणः नास्ति, अपि तु एकं सांस्कृतिकपुनर्जागरणम् अस्ति। अस्य अभियानस्य अन्तर्गतं देहल्यां विविधेषु प्रदेशेषु एकस्मिन् एव समये १००८ सम्भाषणशिविराणि आयोज्यन्ते, येन लक्षसंख्यजनानां संस्कृतभाषया प्रत्यक्षसम्पर्कं भविष्यति।
एतानि सर्वाणि शिविराणि निःशुल्कानि भविष्यन्ति, च आयोजने विश्वविद्यालयेषु, महाविद्यालयेषु, शैक्षिकसंस्थासु, च सामुदायिकस्थलेषु यथा–”आर्-डब्ल्यू-ए” इत्यत्र च आश्रमः, धर्मशाला, आर्यसमाजमन्दिरं, सनातनधर्ममन्दिरं, गुरुकुलं च इत्यादिषु स्थलेषु करिष्यते।

🔵शिविरस्य विशेषताः🔵
प्रतिभागिने २०-घण्टानां सम्भाषणप्रशिक्षणं दास्यते—प्रतिदिने २-घण्टायाः कक्षा, दशदिनानि यावत् । एतत् शिविरं सर्वेषां आयुवर्गाणां कृते, सामाजिकपृष्ठभूमेः जनानां कृते, शैक्षिकयोग्यतायाश्च जनानां कृते उन्मुक्तः भविष्यति। एषः केवलं भाषाशिक्षणं नास्ति, अपि तु भारतीयजीवनमूल्यानाम्, नीतिशिक्षायाः, पारिवारिकसंरचनायाः, सामाजिकसिद्धान्तानां च शिक्षाप्रदानं संस्कृतमाध्यमेन करिष्यते।
🔵समापनसमारोहः – ४ मई २०२५🔵
एतत् महाभियानम् एकेन भव्येन समापनसमारोहेन समाप्यते, यः दिल्लीविश्वविद्यालयस्य सभागारे आयोज्यते। अस्मिन् ऐतिहासिके आयोजने भारतस्य माननीयगृहमन्त्री श्री अमितशाहः मुख्यातिथिरूपेण वर्तते, अन्ये च अनेकाः गणमान्याः अतिथयः अपि सन्निधास्यन्ति। एष: समापनसमारोह: केवलं समापनं नास्ति, अपि तु एकः संस्कृतमहोत्सवः, भारतीयसांस्कृतिकचेतनायाः उत्सवः च भविष्यति।
🔵मुख्यबिन्दवः🔵✒️
अद्य आयोजिते संवाददातृसम्मेलने देहल्या: सांसदवर्य: श्री मनोजतिवारी, विधायकः श्री कपिलमिश्रः, संस्कृतभारत्याः अखिलभारतीय-संगठनमन्त्री श्री जयप्रकाशगौतमः, देहल्या: प्रान्ताध्यक्षः डॉ. वागीशभट्टः च अस्य अभियानस्य समर्थनं कृत्वा स्वीयान् अभिप्रायान् प्रकटितवन्त: ।
🔵 मनोजतिवारी उवाच:-
अस्माभि: ‘आंग्लं शिक्ष’ इत्यादि अभियानं दृष्टम्, इदानीं प्रथमवारं एतत् भव्यरूपेण ‘संस्कृतं शिक्ष’ इत्यस्मिन् रूपेण आयोज्यते। संस्कृतं संस्कृत्या संयोजकं माध्यमं अस्ति। सा कठिनभाषा नास्ति, अपि तु प्राचीनत्वे अपि आधुनिकं च अस्ति।”
🔵कपिलमिश्रः अवदत्:–
“दिल्लीसर्वकारस्य कृते एतत् सौभाग्यं यत् संस्कृतभारत्याः अस्मिन पुण्यप्रयत्ने सहभागी भवति। अहं दिल्ल्याः सर्वान् नागरिकान् आवेदयामि यत् एतस्मिन् ऐतिहासिके सांस्कृतिके अभियाने भागं गृह्णन्तु। अयं केवलं भाषाशिक्षणाय अवसरः नास्ति, अपि तु आत्ममूल्यैः संयोजनस्य अद्वितीयः अवसरः अस्ति।”
🔵संस्कृतभारत्याः अखिलभारतीय-संगठनमन्त्री श्री जयप्रकाशगौतमः अवदत्:–
“संस्कृतं सरलम् अपि च सर्वेषां। संस्कृतं जनभाषा भवतु। एषा सर्वभारतीयभाषाणां जननी अस्ति। एषा संगणकयुक्ता अपि अस्ति। भारतस्य प्रतिष्ठायाः कृते संस्कृतस्य च संस्कृतेः च पुनःस्थापनं अत्यावश्यकं अस्ति।”
🔵प्रान्ताध्यक्षः डॉ. वागीशभट्टः अवदत्–
“यथा प्राचीनकालात् स्पेने देशे स्पेनी भाषा, चीने देशे चीनी भाषा वद्यते—तर्हि भारतदेशे संस्कृतं किमर्थं न विद्यते? आगच्छतु, वयं सर्वे संकल्पं कुर्मः यत् संस्कृतं मातृभाषारूपेण स्वीकुर्म:।”
संस्कृतसम्भाषणशिविर-अभियानम् जनजागरणरूपेण एक: प्रयत्नः अस्ति, यस्य उद्देश्यं संस्कृतभाषां जन-जनपर्यन्तं नीत्वा भारतस्य आत्मानं पुनः जागरयितुम् अस्ति।
डॉ. देवकीनन्दनः
प्रान्तमन्त्री
संस्कृतभारती-दिल्ली
सम्पर्कः – ०९९९९७२१५०८, ०९५५५९३२३४८







