“उत्तराखण्डसंस्कृतशिक्षापरिषद:” परीक्षापरिणामे आलोकः कुकरेती तथा अभिषेकः ममगें प्रदेशे प्रथमस्थाने।
संस्कृत-शिक्षा-मन्त्री श्रीमान् धनसिंहरावत: प्रदेशे प्रथमस्थानं प्राप्तवतः छात्रयोः प्रधानाचार्येभ्यः, अभिभावकेभ्यः च दूरवाणी-संवादेन अभिनन्दनं शुभकामनां च दत्तवान्।

उत्तराखण्ड-संस्कृत-शिक्षा-परिषद: पूर्वमध्यमाकक्षाया: तथा च उत्तर-मध्यमा-कक्षायाः परीक्षापरिणाम: प्रकाशित: गुरुवासरे अभवत्। उत्तर-मध्यमा-कक्षायां उत्तीर्णानां छात्राणां प्रतिशतम् 91.45 अभवत्, तत्रैव दशम-कक्षायां 95.24 प्रतिशतं परिणाम: प्राप्त: ।
संस्कृत-शिक्षा-मन्त्री श्रीमान् धनसिंहरावत: प्रदेशे प्रथमस्थानं प्राप्तवतः छात्रयोः प्रधानाचार्येभ्यः, अभिभावकेभ्यः च दूरवाणी-संवादेन अभिनन्दनं शुभकामनां च दत्तवान्।
संस्कृतपरिषद्परीक्षायाम्, पूर्वमध्यमास्तरे भुवनेश्वरी-स्थः छात्रः आलोकः प्रदेशे प्रथमस्थानं प्राप्तवान् । श्रीजयदयाल-अग्रवाल-संस्कृत-उत्तर-मध्यमा-विद्यालय: श्रीनगरं प्रदेशे छात्रः अभिषेकः ममगें उत्तर-मध्यमा-द्वितीयवर्षे 94% अङ्कैः सह प्रदेशे प्रथमस्थानं प्राप्तवान्।
माननीय-शिक्षामन्त्री डा.धनसिंह-रावत: उभाभ्यां प्रथमस्थानं प्राप्तवत्भ्यां छात्राभ्यां दूरवाण्या संवादं कृत्वा सर्वेभ्यः वर्धापनानि शुभकामनां दत्तवान्।
संस्कृतपरिषद्परीक्षायाम् श्रीवेद-महाविद्यालये ऋषिकेशे पठन्तः पूर्वमध्यमा-द्वितीयवर्षस्य छात्रौ शुभमजोशी तथा हर्षः कोठियालः प्रदेशे शीर्षदशे चतुर्थं दशमं च स्थानं प्राप्तवन्तौ। उत्तरमध्यमा-द्वितीयवर्षस्य छात्रः श्रीदेवः अपि प्रदेशे शीर्षदशे अष्टमं स्थानं प्राप्तवान्।
परीक्षा-परिणामस्य अवसरे संस्कृत-शिक्षा-निदेशकः डा.आनन्द-भारद्वाजः उक्तवान् यत् पूर्वमध्यमापरीक्षायां 2024-25 वर्षेस्मिन् 883 परीक्षार्थिन: च सम्मिलिताः अभवन्, यत्र परिणामं 95.24 प्रतिशतं जातम्। उत्तर-मध्यमापरीक्षायां वर्षे 702 परीक्षार्थिन: च सम्मिलिता: अभवन्, तेषां परिणामं 91.45 प्रतिशतम् अभवत्। गतवर्षस्य अपेक्षया अस्मिन् वर्षे पूर्वमध्यमापरीक्षापरिणामे 6.02 प्रतिशत-वृद्धिः अभवत्, तथा च उत्तरमध्यमापरीक्षापरिणामे 1.07 प्रतिशत् न्यूनता अभवत्।
परीक्षा-परिणामस्य अवसरे सचिवः डॉ. वाजश्रवा-आर्यः, सहायक-निदेशकः डॉ. चण्डीप्रसाद-घिल्डियालः, रामभूषणः बिजल्वाणः च उपस्थिताः आसन्।
—