उत्तराखण्डऋषिकेश

परिषदीयपरीक्षायां गौरवशालीप्रदर्शनम्

उत्तराखण्डसंस्कृतपरीक्षायां श्रीवेदमहाविद्यालयस्य ऋषिकेशे पूर्वमध्यमद्वितीयवर्षे अध्ययनं कुर्वन्तौ छात्रौ शुभमजोशी तथा हर्षः कोटियाल: इत्येतौ क्रमशः प्रदेशपृष्ठे चतुर्थं स्थानं तथा दशमं स्थानं प्राप्तवन्तौ। तथा उत्तरमध्यमाद्वितीयवर्षस्य छात्रः श्रीदेवः अपि प्रदेशे अष्टमं स्थानं प्राप्तवान्।

श्रीवेदमहाविद्यालयस्य छात्राणां परिणामं शतप्रतिशतं प्राप्तम्। संस्कृतपरिषदीयपरीक्षायाम् अस्य महाविद्यालयस्य छात्राः प्रदेशस्य श्रेष्ठदशमध्ये स्थानं प्राप्तवन्तः, यः खलु गौरवस्य विषयः अस्ति।

छात्रः शुभमजोशी प्रदेशे चतुर्थं स्थानं प्राप्तवान्, हर्षः कोटियाल: अपि प्रदेशे दशमं स्थानं प्राप्तवान्, उत्तरमध्यमाद्वितीयवर्षे अध्ययनं कुर्वन् छात्रः श्रीदेवः अपि अष्टमं स्थानं प्राप्तवान्।

एषां छात्राणां उत्तमसफलतया सर्वत्र हर्षोल्लासस्य वातावरणं जातम्। एषा सफलता विद्यालयस्य च समस्तप्रदेशवासिनां च निमित्तं गौरवाय भवति।

विद्यालयस्य प्रबन्धकः श्रीरविन्द्रकिशोरशास्त्री-महोदयः छात्रेभ्यः शुभाशंसाः दत्तवान् तथा तेषां उज्ज्वलभविष्यस्य प्रार्थनां कृतवान्। विद्यालयस्य प्रधानाचार्यः श्रीकृष्णप्रसाद-उनीयाल-महोदयः, आचार्यः श्रीसुनीलदत्त-बिज्ल्वाण-महोदयः अन्ये च अध्यापकाः अपि एषां छात्राणां सफलतायाः निमित्तं अत्यन्तं हर्षं व्यक्तवन्तः, तान् छात्रान् मिष्ठान्नं भोज्यं आशीर्वादं च दत्त्वा तेषां उज्ज्वलभविष्याय कामनां कृतवन्तः। अस्या: सफलतायाः श्रेयः विद्यालयस्य प्रधानाचार्येभ्यः, अध्यापकेभ्यः च छात्राणां कठोरपरिश्रमाय च दत्तम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button