उत्तराखण्डसंस्कृताकादम्या: सामान्यसमिते: दशमीसभायां धामीवर्यस्य यूनां सेवाप्राप्तिसम्बन्धे संस्कृतभाषया सह सम्बन्धं स्थापयितुं विशेषप्रयत्नाः ।

मुख्यमन्त्रिणा श्रीपुष्करसिंहधामीवर्येण सचिवालये उत्तराखण्डसंस्कृत-अकादम्याः सामान्यसमिते: दशमीसभायाः अध्यक्षतां कुर्वता भाषणम् अनेन प्रकारेण अभिहितम्—
“यूनां सेवाप्राप्तिसम्बन्धे संस्कृतभाषया सह सम्बन्धं स्थापयितुं विशेषप्रयत्नाः क्रियन्ताम्। यज्ञे, कर्मकाण्डे, च वेदाध्ययने प्रमाणपत्रपाठ्यक्रमाः आयोज्यन्ताम्। ये छात्राः संस्कृताध्ययनं कुर्वन्ति, तेभ्यः षोडशसंस्काराणां यथोचितं प्रशिक्षणं दातव्यम्। प्रारम्भिकचरणे शतछात्राणां प्रशिक्षणं दीयताम्, ततः प्रतिवर्षं लक्ष्यं निर्धारणं कृत्वा प्रशिक्षणप्रक्रिया अनुवर्तनीया। शिक्षणे, लेखने च संस्कृतभाषायाः संरक्षणे संवर्धने च ये महत्वपूर्णं योगदानं दत्तवन्तः, तेभ्यः प्रतिवर्षं सम्मानराशिः दत्वा सम्मानं दीयताम्।”
ते अवदन् यत् उत्तराखण्डराज्यम् योगस्य, आयुषविज्ञानस्य, ऋषिमुनिनां च भूमिः अस्ति। अत्र संस्कृतं राज्यस्य द्वितीयराजभाषा अस्ति। तस्या: वर्धनाय विद्यालयेषु महाविद्यालयेषु च वादविवादाः, निबन्धलेखनस्पर्धाः, श्लोकस्पर्धाः च आयोज्यन्ताम्। जनपदेषु संस्कृतवर्धनाय जनपदेषु केन्द्रीयाधिकाऱिणः नियोज्यन्ताम्। सर्वेषु कार्यालयेषु नामपट्टिकाः संस्कृतभाषायामपि स्थापनीयाः।
मुख्यमन्त्रिणा उक्तं यत् यत्र यत्र राज्येषु संस्कृतवर्धनाय उत्तमकार्यं कृतम्, तेषां श्रेष्ठप्रथाः अध्ययनं कृत्वा अस्मिन्नेव राज्ये अपि तादृशं कार्यं क्रियताम्। राष्ट्रियशिक्षानीतिः 2020 इत्यस्य अनुसारं संस्कृतस्य समुचितं समावेशं कृत्वा प्रभावकारिण्यः प्रयत्नाः करणीयाः।
संस्कृतशिक्षामन्त्री डॉ. धनसिंहरावतः उक्तवान्— “अद्य वर्तमानकाले प्रतिजनपदं एकं ग्रामं संस्कृतग्रामरूपेण विकसितं क्रियते। अस्या: योजनायाः विस्तारः क्रमशः खण्डस्तरपर्यन्तं कर्तव्यः। संस्कृतवर्धनाय संस्कृतछात्रेभ्यः छात्रवृत्तिः, पूजकानां प्रोत्साहनयोजना च क्रियते इति प्रस्तावः अपि दत्तः।”
समितेः सदस्यैः परामर्ष: दत्तः यत् प्रतियोगीपरीक्षासु संस्कृतभाषायाः प्रश्नाः सम्मिल्यन्ताम्, शोधकार्ये च प्रवृत्तिः वर्धयितव्या।
संस्कृतवर्धनाय राज्ये आगामीकार्ययोजनायाः विषये विस्तरेण चर्चा कृता। संस्कृतं सामान्यव्यवहारे प्रयोगाय एकलक्षजनानां कृते सरलसंस्कृतसम्भाषणप्रशिक्षणं अन्तर्जालमाध्यमेन प्रत्यक्षमाध्यमेन योजनायाः अन्तर्गतं दीयते। वेदाध्ययनस्य कृते वेदाध्ययनकेन्द्राणि स्थापितानि स्युः। संस्कृतविषये उत्कृष्टं कार्यं कुर्वन्ति विद्यालयाः पुरस्कृताः स्युः। समसामयिकविषयेषु संस्कृतलघुचलचित्रप्रतियोगिता आयोज्यते।
संरक्षणाय संवर्धनाय च देशविदेशेषु विश्वविद्यालयैः, संस्कृत-अकादमिभिः, संस्थानैश्च सञ्चालिताः कार्यक्रमाः, गतिविधयः च राज्ये सम्मेलनेन समन्वयितुं प्रयत्नाः क्रियन्ते।
संस्कृतशिक्षासचिवः श्रीदीपककुमारः संस्कृतवर्धनाय राज्ये क्रियमाणकार्याणां योजनानां च विषये विस्तरेण प्रस्तुतिं कृतवान्।
सभायाः प्रारम्भे जम्मूकश्मीरप्रदेशे पहलगामस्थले कृतं आतङ्कवादीदुष्कर्मं स्मृत्वा मृतानां श्रद्धाञ्जलिरूपेण द्विमेषं मौनं धृतम्।
एतस्मिन् अवसरे प्रमुखसचिवः श्री आर.के. सुधांशुः, प्रमुखसचिवन्यायः श्री प्रदीपपन्तः, सचिवः श्री वी. षण्मुगम्, कुलपति: उत्तराखण्डसंस्कृतविश्वविद्यालयस्य प्रो. दिनेशचन्द्रशास्त्री, अपरसचिवः श्री ललितमाहनरयालः, अन्ये च समितिसदस्याः उपस्थिताः आसन्।