श्री-लक्ष्मी-नारायण-आयुर्वैदिक- महाविद्यालये अमृतसरे संस्कृतभारतीपञ्जाबप्रान्तपक्षतः दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं जातम्

श्री-लक्ष्मी-नारायण-आयुर्वैदिक-
महाविद्यालयः अमृतसर एवञ्च संस्कृतभारती पञ्जाबप्रान्त पक्षतः आयोजिता दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं जातम् । समापनकार्यक्रमस्य शुभारम्भः अतिथिभिः दीपप्रज्ज्वलनेन एवञ्च दीपमन्त्रेण जातम् । कार्यक्रमे छात्रेभ्यः धन्वन्तरिवन्दना, स्वागतगीतम्, समूहगीतम्, स्वानुभवः, आयुर्वैदिकनाटकम् इत्यादयः प्रस्तुत्यः कृतः । डॉ. विक्रान्तशर्मा संस्कृतविभागस्य आचार्यः कार्यक्रमे ये अतिथयः आसन् तेषां सर्वेषां परिचयं कारितवान् । अस्मिन् कार्यक्रमे मुख्यातिथि रूपेण डॉ. वीरेन्द्रकुमारः संस्कृतभारती, पञ्जाबप्रान्ताध्यक्षवर्यः आसीत् । महोदयः ‘आयुर्वैदिक जनानां कृते संस्कृतं किमर्थम् आवश्यकम्’ इति विषय उक्तम् । ये छात्राः आयुर्वेदं पठन्ति ते नूतनानाम् औषधिनां निर्माणमपि कर्तुं शक्नुवन्ति । ‘शस्त्रधारकं शास्त्रधारकं’ इति सूक्त्याः उपरि महोदयः बोधितवान् । मुख्यवक्तारूपेण संस्कृतभारत्याः विभागसंयोजकः डॉ. ओमनदीपः आसीत् । महोदयः आयुर्वेद शब्दस्य अर्थविषये बोधितवान् । आयुर्वेदमपि संस्कृतस्य विषयः एव अस्ति । एतदर्थं संस्कृतं पठामः, संस्कृतं पाठयामः इति । अस्मिन्नेव कार्यक्रमे अतिथिरूपेण संस्कृतभारत्याः प्रान्त सहमन्त्री श्रीमन् अजयकुमार आर्यः अपि उपस्थितः आसीत् । प्राचार्या डॉ. मीनाक्षी अरोड़ा महोदयया आगतानाम् अतिथिनां उपहारेण स्वागतं कृतम् । प्राचार्या महोदया स्वोद्बोधने उक्तवती यत् संस्कृतं विना आयुर्वेदं न पठितुं शक्नुमः। अस्माकं महाविद्यालये एतादृशी कार्यशाला भविष्ये अपि भविष्यति । महाविद्यालयस्य पक्षतः सर्वे रजनी विस्तारिकां सम्मानित: कृतः । कार्यक्रमे विभिन्नाः प्रस्तुत्यः छात्रैः छात्राभिश्च कृताः । कार्यक्रमेsस्मिन् डॉ. रीमा, डॉ. वीनस, डॉ. तन्वी, डॉ. भानू, डॉ. नूतन, डॉ. रेनू, डॉ. कुंजेश, डॉ.प्राञ्जलि, डॉ. मनप्रीत उपस्थिताः आसन् । विभागाध्यक्षा डॉ. वीनू मल्होत्रा महोदया सर्वेषां धन्यवादं ज्ञापवती । कार्यक्रमेऽस्मिन् १०० जनाः आसन् ।