संस्कृतस्य समुज्ज्वलकीर्तये प्रसाराय च पञ्जाबप्रान्ते संस्कृत-विचार-गोष्ठी भविष्यति।
संस्कृतभारतीपञ्जाबप्रान्तेन केन्द्रीयसंस्कृतविश्वविद्यालयेन तथा पटियालानगरस्थस्य पञ्जाबीविश्वविद्यालयस्य संस्कृतपालीविभागेन च संयुज्यैका बृहती संस्कृतविचारगोष्ठी आयोजयिष्यते। आगामिनि पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे अगस्तमासस्य नवदशविंशतितमयोः तिथ्योः एतस्य ज्ञानसत्रस्य आयोजनं भविष्यति।

अथ गीर्वाणवाण्याः समुज्ज्वलकीर्तये तस्याः प्रचाराय प्रसाराय च पञ्जाबप्रान्ते प्रवर्तिष्यमाणस्य कस्यचन विशिष्टानुष्ठानस्य वार्ता इत्यत्र । संस्कृतभारतीपञ्जाबप्रान्तेन केन्द्रीयसंस्कृतविश्वविद्यालयेन तथा पटियालानगरस्थस्य पञ्जाबीविश्वविद्यालयस्य संस्कृतपालीविभागेन च संयुज्यैका बृहती संस्कृतविचारगोष्ठी आयोजयिष्यते। आगामिनि पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे अगस्तमासस्य नवदशविंशतितमयोः तिथ्योः एतस्य ज्ञानसत्रस्य आयोजनं भविष्यति।
एतस्य महतः कार्यक्रमस्य पूर्वरङ्गरूपेण तस्य साफल्यमाधारयितुं च एका पूर्वगोष्ठी जलन्धरनगरे समायोजिता। संस्कृतभारत्या जलन्धरजनपदशाखया पतञ्जलियोगग्रामे टाण्डामार्गस्थे तस्या: आयोजनं विहितम्। अस्याः पूर्वगोष्ठ्या मुख्यमुद्देश्यमासीद् भाविगोष्ठीसम्बन्धिनां कार्याणां सुनियोजनं निमन्त्रणपत्राणां वितरणव्यवस्था अधिकाधिकजनानां सम्पर्कसाधनं प्रचारप्रसारकार्याणां नीतिनिर्धारणं चेति। पञ्जाबराज्ये देववाण्या वर्तमानदशा तस्याः शिक्षाक्षेत्रे विस्तारः नवीनचिन्तनस्य प्रोत्साहनं च इत्यादयो विषया मुख्यगोष्ठ्यां विचारणीया इति लक्ष्यीकृतम्।
अत्र जलन्धरजनपदस्य विविधविद्यालयेभ्यो महाविद्यालयेभ्यश्च समागताः प्राध्यापकाः संस्कृतभाषायामनुरक्ताः सहृदयास्तथा च दायित्ववन्तः कार्यकर्तारः सोत्साहं सपरिवारमेव समाजग्मुः। सर्वैरेकमत्येन सङ्कल्पितं यदस्या विचारगोष्ठ्याः सफलतायै राज्यस्य शिक्षणसंस्थाभ्यश्छात्रेभ्यो विद्वद्भ्यश्च सादरमामन्त्रणं प्रेषणीयं येन नवीनानां यूनां सहभागिता वर्धेत गीर्वाणवाण्याश्च पुनर्जागरणं भवेत्। वस्तुत इयं पूर्वसम्मिलनी न केवलमायोजनस्य सोपस्कारिकाभवत् प्रत्युत भाविन्या विचारगोष्ठ्याः कृते सुदृढं मूलाधारं सुस्थिरां भित्तिं च निर्मितवती।
अस्यां महत्त्वपूर्णसभायां संस्कृतभारत्याः प्रान्ताध्यक्षः श्रीशर्मवीरेन्द्रः प्रान्तसहमन्त्री श्री आर्याजयः प्रान्तप्रचारप्रमुखः श्रीप्रसादभगवती च विभागसंयोजकौ श्रीचड्ढासर्वेशः श्रीशर्मौमश्च तथान्येऽपि बहवो विद्वांसः शिक्षिकाः शिक्षकाः संस्कृतसेवकाश्च विशेषेण समुपस्थिता: आसन् यैः स्वकीयोपस्थित्या कार्यक्रमस्यास्य शोभा वर्धिता॥







