उत्तराखण्डपौड़ी

वृक्षमित्रसमितेः सौजन्येन राजकीयबालिकावरिष्ठमाध्यमिकविद्यालये लालपान्यां फलवृक्षवितरणकार्यक्रमः सम्पन्नः

कोटद्वारनगरात्।”मत्स्यपुराणे उक्तं यत् एकं वृक्षं रोप्य यथावत् पालनं कुर्वन् दशपुत्रपालनं समं फलति।” वृक्षारोपणं वा वितरणं निःस्वार्थभावेन कुर्वन् मानवः केवलं प्राणिनां – पशुपक्षिणां कीटपतंगानां – जीवदानं न ददाति, अपि तु पृथिव्याः शुद्धिं सम्यक् समृद्धिं च साधयति।

एवमेताभ्यां भावनाभ्यां प्रेरितः डा॰ आशुतोषः पन्तः, यः सर्वकारीयसेवायाम् अपि कार्यरतः सन्, विगतं पञ्चत्रिंशद् वर्षपर्यन्तं फलवृक्षाणां तथा औषधिवृक्षाणां वितरणकार्यं उत्तराखण्डराज्यस्य नानाजनपदेषु, नगरेषु, ग्रामेषु च अनवरतं कृतवान्। सः स्वपितुः आशीर्वादेन च प्रेरणया विविधसंस्थाभिः विद्यालयैः च सहकार्यं कृत्वा निःशुल्कं वृक्षवितरणं करोति।

तस्य वृक्षप्रेमणा प्रेरिताः कोटद्वारक्षेत्रे कतिपयः युवानः तेषां वरिष्ठैः सह मिलित्वा वृक्षमित्रसमितिम् अङ्कुरितवन्तः, या समिति: तस्य वृक्षवितरणयज्ञं अग्रे नेतुं संकल्पपूर्वकं कार्यं करोति।

अयं वृक्षवितरणकार्यक्रमः गतरविवासरे कोटद्वारनगरनिगमस्य क्षेत्रान्तर्गतं वार्डसंख्यायाः ३ मध्ये स्थिते राजकीयबालिकावरिष्ठमाध्यमिकविद्यालये लालपान्यां सम्पन्नः। विद्यालयस्य प्रधानाचार्या वन्दना भारद्वाजमहोदया शिक्षिकाभिः सह समितिसदस्यैः, डा॰ आशुतोषपन्तेन रूद्रपुरात् आगतान् अम्रातकं (अमरूदः), जम्बीरम् (नींबू), पनसः (कटहलः), कागजी-जम्बीरम् इत्यादीनां वृक्षाणां कृषकाणां मध्ये प्रेम्णा वितरणं कृतम्।

कार्यक्रमे डा॰ आशुतोषः पन्तः, वाणिज्यकर- अधिकारी मितेश्वरः आनन्दः,अधिशासी अभियन्ता अभिषेकवर्मा,डा॰ अजयनेगिः, डा॰ विजयः राणा,डा॰ के॰ के॰ धस्मानः,अजयः जोशी,शिक्षकः संभवः अधिकारी च सर्वे वृक्षाणां महत्त्वं, तेषां उपयोगिता, संरक्षणं च सम्बोधितवन्तः। वृक्षारोपणं कृत्वा यदि तेषां परिपालनं न क्रियते, तर्हि तदपि वृक्षहत्या इत्येव मनीषिभिः दृष्टम्।

एवञ्च वार्डपार्षद् श्री सञ्जयः भण्डारी अपि स्वभाषणे वृक्षारोपणस्य महत्त्वं, पर्यावरणसंरक्षणस्य च आवश्यकतां प्रतिपाद्य तत्सम्बन्धिन्याः समग्रायाः चेष्टायाः सकाशं स्वसहयोगं प्रदास्यतीति प्रतिज्ञां दत्तवान्।

कार्यक्रमसमाप्त्यन्ते विद्यालयस्य छात्र्यः, शिक्षिकाः, समितिसदस्याः च ग्रीन-आर्मी-देवभूमेः सदस्याभ्यां शिवम नेगी, उत्कर्षनेगी च सह उपविष्टवन्तः, ये कोटद्वारमध्ये विगतवर्षेषु वृक्षारोपणे प्रशंसनीयं कार्यं कृतवन्तः।

अन्ते प्रधानाचार्या वन्दना भारद्वाजमहोदया सर्वेषां अतिथीनां, आयोजकानां, छात्राणां च सस्नेहं कृतज्ञतां निवेद्य धन्यवादं प्रेषितवती।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button