उत्तराखण्डदेहरादूनसंस्कृत भारती

दूनविश्वविद्यालये संस्कृतसम्भाषणम्

शिक्षक: माधवपौडेल: सर्वै: सह कारयिष्यति संस्कृतवार्तां

देहरादूननगर्यां देहरादूनशाखायाः संस्कृतभारत्याः आयोजनाय श्रीदूनविश्वविद्यालयपरिसरे पंचदिवसीयं संस्कृतसंभाषणशिविरं २०२५ वर्षे अप्रैल्मासस्य २८ दिनाङ्के सायं पञ्चवादने भव्यरूपेण प्रारब्धः। अस्य शिविरस्य उद्देश्यं संस्कृतभाषायाः माधुर्यं, सरलतां अनुभवितुं च संवादक्षमतां च सम्प्राप्तुं, तथा जनजीवने संस्कृतभाषायाः पुनः प्रतिष्ठापनम् अस्ति।

शिविरस्य आरम्भः दीपप्रज्वलनपूर्वकं सम्पन्नः। अध्यक्षीयभाषणे श्रीरामभूषणविजल्वाणमहाशयः संस्कृतभाषायाः महत्वं तस्याः च सर्वसमावेशीप्रकृति: विस्तरेण प्रकाशयामास। मुख्यातिथि: श्रीगौरवशास्त्री, प्रान्तसंघटनमन्त्री, स्वस्य प्रेरणादायकसन्देशे अवदत् यत् — “संस्कृतभाषा केवलं भाषा नास्ति, अपि तु भारतीयसंस्कृतेः आत्मा अस्ति।”

विशिष्टातिथि: श्रीनागेन्द्रदत्तव्यासमहाशयः संस्कृतभाषां संवादभाषां कर्तुं बलं दत्तवान्। शिविरस्य सञ्चालकः माधवपौडेलमहाभागः पञ्चदिवसीयकार्यक्रमस्य रूपरेखां प्रस्तुतवान्। प्रारम्भिकप्रस्तावना डॉ. प्रदीपसेमवालेन कृता, येन शिविरस्य आवश्यकता उद्देश्यश्च विस्तरेण विवृता। अतिथीनां परिचयं डॉ. आनन्दजोशी महोदयः कृतवान् तथा धन्यवादज्ञापनं धीरजमैठाणीवर्येण कृतम्।

अस्मिन् अवसरे श्वेतारावत् (दूनविश्वविद्यालयस्य छात्रप्रमुखा), वैभवः (डोईवालाखण्डस्य सहसंयोजिका), बीना पुरोहिता (सहप्रचारप्रमुखा), परितोषः (सहछात्रप्रमुखः), संस्कृतप्रेमिण्यौ लीजा नीना जोशी च, तथा अन्ये बहवः कार्यकर्तारः — आकाशशर्मा, कनिका, दिव्यांशुः, ऋतुः जैन च सक्रियं सहभागित्वं कृतवन्तः। संस्कृतसंभाषणशिविरे भागग्रहणाय छात्राः, शोधछात्राः संस्कृतप्रेमिणः च बहुसंख्यया उपस्थिताः। शिविरं प्रतिदिनं सायं पञ्चवादनात् सप्तवादनपर्यन्तं आयोज्यते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button