उत्तराखण्डदेहरादून

संस्कृतस्य प्राक्तनमहिमा — वर्तमानजीवने पुनः प्रतिष्ठाप्यते

दूनविश्वविद्यालयपरिसरे संस्कृतसंभाषणशिविरस्य समारोपसमारोहः

संस्कृतभारतीदेहरादूनशाखायाः तत्त्वावधाने दूनविश्वविद्यालयपरिसरे आयोजितस्य पञ्चदिवसीयस्य संस्कृतसम्भाषणशिविरस्य हर्षोल्लासेन, समारोपः संजातः । अस्य शिविरस्य प्रमुखं लक्ष्यं आसीत् — विश्वविद्यालयीयच्छात्रेषु संस्कृतभाषायाः माधुर्यं, सरलतां च अनुभावयितुं, संस्कृतं जीवद्भाषारूपेण पुनः प्रतिष्ठापयितुं च। शिविरसमारोपः दीपप्रज्वलनकार्येण समारब्धःदीपशिखायामिव ज्ञानदीपः प्रज्वलितोभवत्

अध्यक्षीयभाषणे प्रख्यातः साहित्यशास्त्रविद् डॉ॰ रामभूषणबिजल्वाण-महोदयः उक्तवान् यत् —
“संस्कृतं जीवने स्वीकुर्याम: चेत्, सा केवलं भाषा न भवति, अपि तु जीवनदर्शनं प्रदातुं समर्थ: जायते। संस्कृतस्य व्यापकं सर्वसमावेशी च स्वरूपं अस्याः विशेषता अस्ति, या सर्वमानवान् आत्मीयत्वेन बध्नाति।”

मुख्य-अतिथिरूपेण सन्न्यस्तः सुप्रसिद्धः वन्यजीवचिकित्सकः श्रीः राकेशः नौटियाल-महोदयः छात्राणां भाषाविषये औत्सुक्यं दृष्ट्वा अतीव प्रसन्नः अभवत्। तेन उक्तं — “भाषायाः माधुर्यं केवलं श्लोकपठनमध्ये निहितं नास्ति, किन्तु तस्य प्रयोगः दैनिकजीवने यदा भवति, तदा सा जीवति।”

विशिष्ट-अतिथिरूपेण उत्तराखण्ड-विद्वत्सभायाः अध्यक्षः श्रीः विजयेन्द्रप्रसादममगैं-महोदयः भाषायाः शास्त्रीयं तथा पौराणिकं योगदानं विस्तरेण प्रकाशितवान् तेन उक्तं — “संस्कृतं वेदपुराणानां, दर्शनेषु च जीवनसारं ददाति। यत्र धर्मः, तत्र संस्कृतभाषा।”

उत्तराखण्ड-विद्वत्सभायाः महासचिवः श्रीदिनेशप्रसादभट्ट: प्रोक्तवान् यत् “संस्कृतभारती-संस्थायै वयं सर्वथा साहाय्यं दातुं सज्जाः स्मः, वर्त्मनि भविष्ये च। संस्कृतं भारतीयसंस्कृतेः हृदयम् अस्ति। तस्य संवर्धनं अस्माकमेव दायित्वं च।”

शिविरस्य संपूर्णं सञ्चालनं श्रीः माधवपौडेल-महोदयेन सौष्ठवेन सम्पादितम्। शिविरविवरणं, कार्यक्रमरूपरेखा च सम्यक् प्रस्तुता। प्रारम्भिकवक्तव्यं तथा अतिथिपरिचयं डॉ॰ प्रदीपसेमवालः सम्यक् प्रकारेण सम्पादितवान् । सः शिविरस्य ध्येयं, प्रयोजनं च विवेचितवान्। धातव्यं यदमुना एव विदुषा शिविरेऽस्मिन् शिक्षणं विहितम्। सत्रावसाने डॉ॰ नवीनजसोलावर्येण धन्यवादज्ञापनं कृतम्। तेन बलपूर्वक उक्तं यत् —”संस्कृतं पुनरपि संवादभाषारूपेण प्रतिष्ठापनीया। यदि युववर्गः स्वेच्छया भाषां स्वीकरोति, तर्हि पुनर्जागरणं निश्चितम्।”

शिविरगीतं , अनुभवकथनं, संवादप्रस्तुतिः इत्यादिषु कार्यक्रमेषु कनिका, आशुतोष, टीना, परितोष-नामिकैः विद्यार्थिभिः हृदयस्पर्शिनी प्रस्तुति: आसीत्। गीतं संस्कृतमाधुर्यस्य साक्षादानुभवप्रदं च जातम्।

अवसरेऽमुष्मिन् विभागसंयोजकः श्रीः नागेन्द्रव्यासः, डविवाला-खण्डसंयोजकः आनन्दजोशी, महानगर-संपर्कप्रमुखः धीरजमैठाणी, रायपुर-सहखण्डसंयोजिका डॉ॰ बीना पुरोहित:, शिविरसंयोजिका लीजा, परितोषः, वैभवः , संयमः, नीना जोशी इत्येते प्रमुखकार्यकर्तारः सक्रियतया सम्मिलिताः। अन्ये च — आकाश शर्मा, दिव्यांशु:, ऋतु: इत्येते यथायोग्यं दायित्वं ऊढ्वा सफलतां साधितवन्तः। शिविरे छात्राः, शोधार्थिनः, अध्यापकवर्गः, संस्कृतप्रेमिणः च बहुसंख्यया सम्मिलिताः अभवन्। शिविरस्य समापनसमये सर्वैः सम्मिलितैः एकमतपूर्वकं संकल्पः कृतः — “संस्कृतं न केवलं पठनीयम्, अपि तु जीवनीयम् — संस्कृतं जीवनस्य अभिन्नभागं करिष्यामः! इति ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button