उत्तराखण्ड

डॉ. कविता भट्टशैलपुत्री अखिलभारतीयदर्शनपरिषद: सहसचिवपदे मनोनीता

उत्तराखण्डं। हेमवतीनन्दनबहुगुणागढवालकेंद्रीयविश्वविद्यालये श्रीनगरगढवाले स्थिते दर्शनशास्त्रविभागे डॉ. कविता भट्टशैलपुत्री अखिलभारतीयदर्शनपरिषद: सहसचिवपदे मनोनीता जाता। एषा सा विश्वविद्यालयस्य इतिहासे प्रथमा शिक्षिका या अस्मिन् महत्वपूर्णे पदे नियुक्ता।

अखिलभारतीयदर्शनपरिषद् भारतीयज्ञानपरम्परायाः संरक्षणे, शोधे च प्रसारे समर्पिता संस्था अस्ति। एषा परिषत्सु शिक्षणसंस्थासु, अनुसन्धानकेन्द्रेषु च विद्वत्सु संवादसमन्वयकेषु च सशक्तं सेतुं निर्माति।

डॉ. कविता दर्शनशास्त्रसम्बद्धेषु अन्यसंस्थासु अपि सक्रियतया सहभागं करोति । तया दर्शनशास्त्रे, योगे, हिन्दीसाहित्ये च विषयीकृत्य एकोनत्रिंशत् (२९) ग्रन्थाः लिखिताः, येषां केचन विभिन्नविश्वविद्यालयेषु पाठ्यक्रमेषु समाविष्टाः, केचन पुरस्कारैः अपि सम्मानिताः।

लेखनक्षेत्रे ‘शैलपुत्री’ इत्युपनाम्ना प्रसिद्धा डॉ. कविता उवाच— सा छात्रकालात् एव दर्शनशास्त्रयोगौ प्रति आत्मीयं समर्पणं अनुभवति स्म। इदानीं सर्वाधिकसदस्यसमृद्धपरिषद: सहसचिवपदे कार्यकालयोग्यतां प्राप्तवती । सा सम्पूर्णेन परिश्रमेण दर्शनशास्त्रस्य लोकप्रियम् अभिवर्धनाय विविधदिशासु कार्यं करिष्यति इति प्रत्यवदत्।

पूर्वं विज्ञानप्रौद्योगिकीमंत्रालयस्य अन्तर्गतं सीएसआइआर्-निस्केयर्-नाम्नि संस्थायाः कार्यक्रमपरामर्शसमिते: सदस्यरूपेण अपि कार्यं सा कृतवती।

वर्षे २०२२ तमे फिजी-देशे आयोजिते द्वादशमे विश्वहिन्दीसम्मेलने भारतसर्वकारस्य प्रतिनिधिमण्डले अपि सा सम्मिलिता। बहुषु अन्तर्राष्ट्रीय-राष्ट्रीयसम्मानैः पुरस्कारैश्च सम्मानिता, सा मध्यप्रदेशसाहित्याकादम्याः “आचार्यरामचन्द्रशुक्ल-अखिलभारतीयसाहित्य-अकादमी आलोचनापुरस्कारम्”-इत्यनेन अपि पुरस्कृता।

डॉ. कवितायाः मनोनयनस्य सन्दर्भे सा परिषद: शीर्षनेतृत्वं प्रति कृतज्ञतां प्रकटितवती। तस्याः मनोनयनं प्रति विश्वविद्यालयस्य शिक्षाजगत्, तस्याः प्रशंसकाः, पाठकाः, छात्राः च सन्तोषेन प्रमोदेन च पूर्णाः समुत्साहिन: अभवन्।

सा बहुवर्षं यावत् परिषद: विशिष्टजीवनसदस्या अस्ति। देशस्य विविधप्रदेशेषु परिषद: अधिवेशनेषु निरन्तरं सहभागिता करोति। गतवर्षे कश्मीरविश्वविद्यालये आयोजिते परिषद: ६८मे वार्षिकाधिवेशने तस्याः रचना “घेरण्डसंहिता-षट्कर्म, योगाभ्यास, योगः च” नाम्ना कृति: प्रो. सोहनराजतातेड-अखिलभारतीयदर्शनपुरस्कारं प्राप्तवती।

वर्तमानवर्षे झारखण्डे आयोजिते परिषद: ६९मे वार्षिकाधिवेशने नवकार्यकारिणीनिर्माणं जातम्।

अधिवेशने भारतीयदर्शनक्षेत्रे कार्यरतशिक्षाविदः, शोधार्थिनः, विद्वांसः च समागताः, यत्र विचारविनिमयः च परिषद: भावीनीति: अपि निर्दिष्टा।

नवगठितकार्यकारिण्यां देशस्य विविधविश्वविद्यालयेभ्यः प्रतिष्ठितविद्वांसः स्थानं प्राप्तवन्तः। प्रो. अम्बिकादत्तशर्मा अध्यक्षपदे, प्रो. किस्मतकुमारसिंह: सचिवपदे च निर्वाचितौ।

देशस्य विभिन्नभागेभ्यः दार्शनिकानां समावेशेनकार्यकारिणी विविधदृष्टिकोणैः समृद्धा भविष्यति इति अपेक्षा अस्ति। परिषद् आगामीवर्षेषु भारतीयदर्शनस्य महत्त्वं राष्ट्रीय-अन्तर्राष्ट्रीयस्तरे व्यापकतया स्थापयितुं समर्था भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button