पंजाबसंस्कृत भारती

दशदिवसीयकार्यशालायाः समापनसमारोहः सम्पन्न: पंजाबप्रान्ते

अजयकुमार-आर्य: । बठिंडा । पञ्जाबराज्यम्।
सन्तसहारा-आयुर्वेदिक-महाविद्यालय: चिकित्सालयश्च बठिण्डा तथा संस्कृतभारती पञ्जाबप्रान्तस्य इत्यनयोः संयुक्ततत्त्वाधाने आयोजिता दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः  समापनं समभवत्।

समापनकार्यक्रमस्य शुभारम्भः अतिथिभिः दीपप्रज्ज्वलनेन एवञ्च दीपमन्त्रेण जातम् । कार्यक्रमे छात्रै: धन्वन्तरिवन्दना, स्वागतगीतम्, समूहगीतम्, स्वानुभवः, भारत-पाकिस्तान देशस्य स्थितिविषयकनाटकम्, आयुर्वेदिकनाटकम् इत्यादयः प्रस्तुत्यः सम्प्रस्तुता:। संस्कृतविभागस्य प्राध्यापकः शशिकान्त शास्त्री महोदयः कार्यक्रमस्य अतिथीनां परिचयं स्वागतं च कृतवान् । अस्मिन् कार्यक्रमे विशिष्टातिथिरूपेण अजय कुमार आर्यः संस्कृतभारती, पञ्जाबप्रान्तस्य प्रान्तसह-मन्त्री समुपस्थित: आसीत् । अतिथिरूपेण समुपस्थित: संस्कृतभारत्याः पटियालाजनपदस्य शिक्षणप्रमुखः डॉ. राहुलः आसीत् । मुख्यवक्ता रूपेण संस्कृतभारत्याः पटियालाविभागसंयोजकः डॉ. ओमनदीपः आसीत् । महोदयः आयुर्वेदशब्दस्य अर्थविषये बोधितवान् । आयुर्वेदमपि संस्कृतस्य विषयः एव अस्ति । एतदर्थं संस्कृतं पठामः, संस्कृतं पाठयामश्च इति । संस्कृतं किमर्थम् एतद्विषये अपि महोदयः सर्वान् बोधितवान् । महाविद्यालयस्य प्राचार्य: डॉ. रणजीत सोलकंरमहोदयः आगतानाम् अतिथीनां स्मृतिचिन्हं दत्वा स्वागतं कृतवान् । महाविद्यालयस्य पक्षतः सर्वे रजनी विस्तारिकाया: सम्मानं कृतवन्त: । कार्यक्रमे विभिन्नाः प्रस्तुत्यः छात्रैः छात्राभिश्च प्रस्तुता: । कार्यक्रमेsस्मिन्  महाविद्यालयस्य-शिक्षकाः डॉ. लवनीश पुर्थी (वाइस प्रिंसिपल) डॉ. अपर्णा, डॉ. निधि चौधरी, डॉ. निधि अरोड़ा, डॉ. पलक, डॉ. साक्षी, डॉ. अमीन, डॉ. मीनाक्षी, डॉ. रवि अरोड़ा, डॉ. मनिंदर सिंह, डॉ. श्वेता, डॉ. भुवनेहा शर्मा, डॉ. रुचि शर्मा, डॉ. सजुज्य, डॉ. भावना समुपस्थिताः आसन् । प्राचार्य महोदयः सर्वेषां धन्यवादं ज्ञापितवान्। कार्यक्रमेऽस्मिन् ७० जनाः आसन् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button