उत्तराखण्डसंस्कृत भारती

संस्कृतस्य नवोत्थानाय हल्द्वान्यां संस्कृतभारत्या: अभ्यासवर्ग:

संस्कृतप्रचारप्रसाराय तथा च कार्यविस्ताराय नवदायित्त्ववताम् अभवत् घोषणा

संस्कृतभारत्या: उत्तराञ्चलस्य कूर्मांचलसम्भागेन हलद्वान्यां “रूद्राक्ष-बैंकट-हॉल” इत्यत्र 11-05-2025 दिनाङ्के कार्यकर्तृ-अभ्यासवर्गः आयोजित: कृत:। यत्र प्रान्तसह-मन्त्री डॉ० चन्द्रप्रकाश-उप्रेति-महोदयः, पूर्वाध्यक्षा श्रीमती जानकी-त्रिपाठी , सेवानिवृत्त-प्रधानाचार्यः डॉ० एन० डी० जोशी च सरस्वती-मातु: पुरत: दीप-प्रज्वलनेन माल्यार्पणेन कार्यक्रमस्य आरम्भं कृतवन्तः। कार्यक्रमे चत्वारि सत्राणि आयोजितानि, यत्र संस्कृतभाषायाः प्रचार-प्रसारार्थं विस्तरेण चर्चा अभवत्।

कार्यक्रमे कुमाऊं-सम्भागस्य सर्वेषां जनपदानां कार्यकर्तारः उपस्थिताः आसन्। कार्यकर्तॄणां मध्ये क्षेत्रीय-संघटन-मन्त्रिणा श्री-देवेन्द्र-महोदयेन संस्कृतभाषायाः प्रचार-प्रसारयो: एवं च कार्यविस्तारविषये विस्तृतचर्चा कृता।

सहप्रान्तमन्त्रिणा डॉ० चन्द्रप्रकाश-उप्रेति-महोदयेन त्रिषु मासेषु कूर्मांचलसम्भागस्य सर्वेषु जनपदेषु संस्कृत-शिविराणां आयोजनं करणीयमिति संकल्पः कृतः। सर्वे कार्यकर्तारः स्व-स्वक्षेत्रे संस्कृतदिवसात्पूर्वम् एकैकं शिविरं आयोजयिष्यन्ति। रक्षाबन्धन-पर्वणि संस्कृत-सप्ताहस्य निमित्तेन सम्पूर्णे सम्भागे विशेष-संस्कृत-कार्यक्रमाणाम् आयोजनं करणीयमिति अपि संकल्पः कृतः, येन ग्रामात् नगरं प्रति संस्कृतभाषायाः प्रचारः प्रसारश्च सुसम्पन्नः स्यात्।

अवसरेsस्मिन् संस्कृतभारत्या: कूर्मांचलसम्भाग-सम्पर्कप्रमुखः श्रीप्रकाशचन्द्र-भट्ट:, प्रान्तसंघटनमन्त्री श्रीगौरव-शास्त्री, प्रान्तप्रचारप्रमुख: जगदीशचन्द्रजोशी, डॉ० गोपालदत्त-त्रिपाठी, डॉ० नीरज-जोशी, डॉ० जगदीशचन्द्र-पाण्डेय:, डॉ० राघव-झा, डॉ० आरती-जैन:, डॉ० भारती-नारायण-भट्ट:, डॉ०मनोज: जोशी, डॉ० मनोज-पाण्डे , रि-कैप्टन शेखरचन्द्रजोशी चादयः विद्वांसः उपस्थिताः आसन्।

आयोजितेस्मिन् अभ्यासवर्गे एव क्षेत्रसंघटनमन्त्रिण: श्रीदेवेन्द्रपण्ड्यामहोदयस्य तथा प्रान्तसंघटनमन्त्रिण: श्री गौरवशास्त्रीमहोदयस्य सान्निध्ये नूतनदायित्वतां घोषणा अभवत् । यत्र क्रमश: श्रीचन्द्रशेखरजोशी महानगराध्यक्ष:, श्रीसाकेतपाठक: महानगरमन्त्री श्रीमनोजपाण्डेय: महानगरसम्पर्कप्रमुख: , श्रीप्रकाशरूवाली देवलचौड़वसतिसंयोजक: , कु.मेघाबनकोटी फूलचौड़वसतिसंयोजिका, श्रीमती भारती पाण्डेया कुसुमखेड़ा वसतिसंयोजिका, श्रीमती मोना जैन: “रेलवे-बाजार” इति वसतिसंयोजिका, डॉ. नीरजजोशी सहविभागसंयोजक: (नैनीतालविभाग:) डॉ.राजेन्द्रभट्ट: जनपदाध्यक्ष:, डॉ.मोहितजोशी – जनपदमन्त्री, डॉ. आरती जैन: – विद्यालयकार्यप्रमुखा , श्रीशेखरचन्द्रजोशी श्लोकपाठनप्रमुख: बिन्दुखत्ता-ग्राम: इत्येते घोषिता: अभवन्।

बाजपुरनगरत: नवदायित्वे श्रीतारादत्तजोशी बाजपुर- नगरसंयोजक:, रामनगरत: श्रीसत्यप्रकाशमिश्र: – नगर-अध्यक्ष:, श्रीआशुतोष सती नगरमन्त्री, काशीपुर-नगरत: श्रीनिष्कर्ष: बेलवाल: नगर-सम्पर्कप्रमुख: , श्रीदामोदर सुयाल: नगराध्यक्ष: , कु.उमा सैनी – नगरमन्त्री इत्येतेपि संस्कृतकार्यार्थं नवदायित्वे घोषिता: अभवन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button