उर्मिलादेवी-आयुर्वेद-महाविद्यालये दशदिवसीय-सम्भाषणकार्यशालाया: समापनम्

प्रेषक:-अजयकुमार-आर्य: । पंजाब। श्रीमती उर्मिला देवी आयुर्वैदिक चिकित्सालयः, चिकित्सकीय महाविद्यालयश्च संस्कृतभारती, पञ्जाबप्रान्त: उभयो: संयुक्ततत्त्वाधाने आयोजिताया: दश-दिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः अद्य समापनं जातम्। समापनकार्यक्रमस्य शुभारम्भः दीपप्रज्ज्वालनेन एवञ्च दीपमन्त्रेण जातम् । कार्यक्रमे छात्रछात्राभि: सरस्वतीवन्दना, संकल्पः, उद्देश्यगीतम्, अनुभवकथनम्, नाटकम् इत्यादयः प्रस्तुत्य: कृता: । अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण डॉ. वीरेन्द्रकुमारः संस्कृतभारती, पञ्जाबप्रान्ताध्यक्षवर्यः आसीत् । महोदयेन ‘आयुर्वैदिक पद्धत्यां वैद्यानां कृते संस्कृतं किमर्थम् आवश्यकम्’ विषये निजविचारा: प्रस्तुता:। महोदयेन उक्तं यत् आयुर्वेदस्य सम्यक् ज्ञानं भवितव्यमेव यतोsहि ये रुग्णान् सुवैद्य: एव स्वस्थं कर्तुं शक्नोति। तेन आयुर्वेदे उद्धृतानां त्रिविधदुःखानां विषये अपि उक्तम् । मुख्यवक्तृरूपेण समुपस्थितेन संस्कृतभारत्याः विभागसंयोजकेन डॉ. ओमनदीपेन उक्तं यत् आयुर्वेदग्रन्थेभ्य: यदि किमपि नूतनं निष्काशनीयं चेत् संस्कृताध्ययनम् आवश्यकम् । अनुवादमाध्यमेन संस्कृतस्य मूलश्लोकानाम् अवगमनम् उचितमार्गं नास्तीति।
अस्मिन् कार्यक्रमे समुपस्थितेन सहमन्त्रिणा श्रीमता अजय-आर्येण वर्गस्य विषये उक्तं यत् एतादृशै: वर्गै: समाजे संस्कृतविषयकं जागरूकताया: भाव: जनयन्ति येन ते भविष्ये संस्कृतस्वयंसेवकरूपेण विचरिष्यन्ति।
अस्मिन्नवसरे प्राचार्यया: डॉ. मृदु शर्ममहोदयया आगतानाम् अतिथीनाम् उपहारेण स्वागतं कृतम् । कार्यक्रमे डॉ. मीनाक्षी नाथ, संहिता विभागाध्यक्षा,श्रीमन् नितिनकुमार: संस्कृतविभागस्य आचार्येण सह अन्या: अध्यापका: गणमान्यसदस्या: च समचपस्थिता: आसन्।
कार्यक्रमेऽस्मिन् ९० प्रशिक्षुका: भागं गृहीतवन्त: । प्राचार्या – महोदया महाविद्यालयपक्षतः मनीष-विस्तारकस्य च रजनीविस्तारिकायाश्च सम्मानं कृतवती। आयोजनेस्मिन् डॉ. अनुराधा, डॉ. मनु वर्मा , डॉ. भूपेन्द्रसिंह: , अजयमिन्हास: , डॉ. तन्वीनागपाल: , डॉ. शिवानीशर्मा , डॉ.सोनिका जारियालः , डॉ. भानुमहाजनः , डॉ.सौरभशर्मा , डॉ. मानिलाशर्मा , डॉ. विकासादय: उपस्थिता: ।







