पञ्जाबराज्यस्य अमृतसरे श्रीलक्ष्मीनारायण-आयुर्वैदिकमहाविद्यालयः एवञ्च संस्कृतभारतीपञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय-संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम्

प्रेषक:- अजयकुमार-आर्य: । पंजाब।पञ्जाबराज्यस्य अमृतसरे श्रीलक्ष्मीनारायण-आयुर्वैदिकमहाविद्यालयः एवञ्च संस्कृतभारतीपञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय-संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम्।उद्घाटनकार्यक्रमस्य शुभारम्भः दीपप्रज्वालनेन दीपमन्त्रेण च अभवत्। छात्रै: धन्वन्तरिवन्दना अपि प्रस्तुता।
अस्मिन् उद्घाटनसत्रे श्रीलक्ष्मीनारायण-आयुर्वैदिकमहाविद्यालयस्य प्राचार्या डॉ. मीनाक्षी अरोड़ा उपस्थिता आसीत् । प्राचार्यामहोदयया प्रमुखशिक्षिकायाः स्वागतं पुष्पगुच्छेन विधत्तम् ।
महाविद्यालयस्य प्राचार्यामहोदया स्वोद्बोधने उक्तं यत् आयुर्वेदस्य आधारः संस्कृतमेव अस्ति, आयुर्वेदः संस्कृतम् इव प्राचीनमस्ति। सर्वेषां कृते एषा कार्यशाला उपयोगिनी भविष्यति। अस्यां कार्यशालायां विस्तारिका रजनी शिक्षिकारूपेण भविष्यति ।
उद्घाटनेस्मिन् महाविद्यालयस्य-शिक्षकाः डॉ. विक्रान्तशर्मा, डॉ. वीनस, डॉ.रीमा, डॉ. भानुपुरी च उपस्थिताः आसन् । अस्यां कार्यशालायां षष्ट्याधिक-छात्राः भागं गृह्णन्त: सन्ति।







