संस्कृतभारत्याः पञ्जाबप्रान्तीया नाभागोष्ठी दयानन्दविद्यालये सम्यक् सम्पन्ना

अथ अगस्तमासस्य द्वितीये दिने संस्कृतभारत्याः पञ्जाबप्रान्तीया नाभागोष्ठी दयानन्दविद्यालये सम्यक् सम्पन्ना । अस्यां महत्त्वपूर्ण्यां सभायां नाभानगरे संस्कृतस्य वर्तमानदशां तत्रत्येषु सामान्यजनेषु च गीर्वाणवाण्याः प्रचारप्रसारयोः भावीयोजनामधिकृत्य गभीरो विमर्शः समभूत्। तदतिरिक्तम् आगमिनि समये अगस्तमासस्य एकोनविंशे विंशे च दिनाङ्के पटियालानगरस्थे पञ्जाबीविश्वविद्यालये आयोजयिष्यमाणस्य कार्यक्रमस्य विषयेऽपि जनाः सूचिताः
अत्र मुख्यवक्तृत्वेन पञ्जाबप्रान्तस्य सहमन्त्रिणा आर्यअजयकुमारेण व्याजह्रे यत्संस्कृतभारतीति सङ्घटनस्य द्वे प्रमुखे कार्ये विद्येते शैक्षणिकं सङ्घटनात्मकं चेति। तेन महोदयेन कार्यद्वयस्यापि रूपरेखा सुष्ठु प्रतिपादिता
पटियालाजनपदसम्पर्कप्रमुखेन वैद्यदत्तरविणा निगदितं यद्देववाणी नूनमतीव सरला सुललिता च। पञ्जाबभूमौ अस्याः समुन्नत्यै संरक्षणाय च अस्माभिः सततं प्रयतितव्यमेवेति
अस्यां मन्त्रणासभायां पटियालाजिलाध्यक्षः वैद्यस्वरूपनिगमः जिलामन्त्री वैद्यगगनदीपपाठकः पटियालानगरसम्पर्कप्रमुखः मित्तल-सी-आर्-महोदयः नाभानगरव्यवस्थाप्रमुखः अनिलः श्रीमान् गिरधारीलालश्चेत्यादयोऽधिकारिणः कार्यकर्तारश्च स्वोपस्थित्या सभायाः शोभामवर्धयन्।







