पाटियालानगरे संस्कृतभारत्याः सभा सम्पन्ना

विगते सप्ताहे पाटियालानगरे नगरक्षेत्रस्य प्रथमचरणे स्थितस्य शिवमन्दिरस्य प्राङ्गणे संस्कृतभारतीसंस्थया एका महत्त्वपूर्णसभा आयोजिता। सभायाम् अस्यां संस्कृतभारत्याः उत्तरक्षेत्रसंघटनमन्त्री श्रीमान् कुमारनरेन्द्रः प्रदेशाध्यक्षो डोक्टर् कुमारविरेन्द्रः सहकार्यदर्शी कुमार अजयश्च मुख्यातिथित्वेन समुपस्थिताः आसन्।
गोष्ठ्याः मुख्यो विषय: आसीत् पञ्जाबीविश्वविद्यालये आगामिनि पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे अगस्तमासस्य नवदशविंशतिदिनाङ्कयोः आयोज्यमाना द्वैदिवसिकी संस्कृतविचारपरिषद्। तस्याः परिषदः साफल्यहेतोः विमर्शः कृतः। तदतिरिक्तं संस्कृतसप्ताहस्य सुष्ठु आयोजनाय अपि मन्त्रणा जाता।
वैदिकमन्त्रं सं गच्छध्वं सं वदध्वम् इति मनसि निधाय सर्वविधजनानां विशेषतः युवकानां सहयोगः कथं प्राप्येत इत्यस्मिन् विषये सम्यक् चिन्तनं कृतवन्तः।
सभायाम् एतेऽपि महानुभावाः विराजमानाः आसन् यथा विभागसंयोजको डोक्टर् शर्मोमनदीपः जिल्लामन्त्री पाठकगगनदीपः जिल्लासम्पर्कप्रमुखो डोक्टर् दत्तरविः नगरसंयोजकः श्रीमान् मित्तलछज्जूरामश्च। एतैः सह अन्येऽपि बहवो गीर्वाणवाणीसेवानुरक्ताः समागताः। सर्वेषां मुखकमलेषु संस्कृतप्रचारजनित आनन्दः परिलक्षितोऽभवत्।







