अथ देवभूमावुत्तराखण्डे देहरादूननगर्याम् वैल्हमकन्याविद्यालये संस्कृतकार्यशालायाः सफलमायोजनम्
जनपदमन्त्री सेमवालप्रदीपमहाभागः संस्कृतभारत्याः परिचयमुद्दिश्य सारगर्भितं व्याख्यानं दत्त्वा सरसं शिक्षणमकरोत्

देहरादूनम्। पञ्चविंशत्युत्तरद्विसहस्रतमस्य वैक्रमाब्दस्य अगस्तमासस्य तृतीये दिनाङ्के डालनवालाक्षेत्रे सुप्रतिष्ठितस्य वैल्हमकन्याविद्यालयस्य प्राङ्गणे देववाणीसंस्कृतस्य एका मनोहरा कार्यशाला सम्पन्ना। अस्य समग्रस्य कार्यक्रमस्य सङ्कल्पना क्रियान्वयनं च विद्यालयस्य प्रधानाचार्यायाः कपूर्विभामहोदयायाः दूरदर्शिन्याः प्रज्ञायाः प्रभावशालिनश्च नेतृत्वस्य सुष्ठु निदर्शनमासीत्।

अस्यां ज्ञानसत्ररूपायां कार्यशालायां नगर्याः संस्कृतभारत्याः त्रयो विद्वांसः समाहूताः। तत्र प्रथमं जनपदमन्त्री सेमवालप्रदीपः महाभागः संस्कृतभारत्याः परिचयमुद्दिश्य सारगर्भितं व्याख्यानं दत्त्वा सरसं शिक्षणमकरोत्। तदनन्तरं मैठाणीधीरजः संस्कृतसप्ताहस्य किं स्वरूपं किं च तस्य महत्त्वमिति सविस्तरं प्रतिपादितवान्। अथ जोशीआनन्दमोहनः महाशयः श्रुतिमधुरैः संस्कृतगीतैश्छात्राणामुच्चारणाभ्यासं सम्यगकारयत्। एभिस्त्रिभिर्विद्वद्भिर्गीतसंवादविद्युत्प्रस्तुतीनां साहाय्येन कार्यशालेयं सरसा सुबोधा च विहिता।

अस्मिन् मङ्गलावसरे विद्यालयस्य कनिष्ठशाखामुख्या पाण्डेयनालन्दामहोदया संस्कृतविभागाध्यक्षा कपूर्गौरीवर्या कार्यक्रमसंयोजिका भट्टार्चना जोशीऋतुमहोदया च विशेषरूपेण समुपस्थिता आसन्। कार्यक्रमेऽस्मिन्नादलखारुचिः चगसाक्षी च महाशये सादरं सम्मिलिते अभवताम्। अस्य कार्यक्रमस्य साफल्ये गर्गदीक्षायाः सामन्तउदलकस्य गोस्वामीचिन्मयस्य अनवरसिराजस्य लालरोशनस्य च विशिष्टं योगदानं स्मरणीयम्।

विद्यालयस्य छात्रास्तु महता उत्साहेन भूयस्या जिज्ञासया गाढया श्रद्धया च कार्यशालायाः सर्वेषु क्रियाकलापेषु भागमगृह्णन्। वस्तुतस्तु कार्यशालेयं न केवलं ज्ञानवर्धिनी अपि तु विद्यार्थिनीनां चेतःसु गीर्वाणवाणीं प्रति नूतनां रुचिमात्मीयतां महान्तमुत्साहं चाजनयत्। एवं हि श्रूयते शास्त्रेषु शब्दब्रह्मणि यः स्नाति स पुण्यतीर्थेषु स्नानात् परं फलमश्नुत इति। तदेव फलमत्र साक्षात्कृतमिव।







