उत्तरप्रदेशकण्वनगरीकोटद्वारपौड़ी

श्रीमदाचार्यस्य बालकृष्णस्य जन्मदिवसस्य तथा चौषधिदिवसस्य उपलक्ष्ये वृक्षारोपणं कृतम्

अथ चक्रवर्तिनः सम्राजो भरतस्य जन्मस्थल्यां पुण्यतमे कण्वाश्रमे विशिष्टमेकं पुण्यकार्यं सम्पन्नम्। आयुर्वेदपतञ्जलियोगपीठस्य अध्यक्षस्य योगसहयोगिनश्च श्रीमदाचार्यस्य बालकृष्णस्य जन्मदिवसस्य तथा चौषधिदिवसस्य पूर्वसन्ध्यायाम्।

कोटद्वारनगरीया ग्राम्यैक्यप्रगतिप्रेमाञ्जलिसङ्गमसमितिः या गेप्स् इति नाम्नापि ज्ञायते तस्या आधिपत्ये सत्यदेवाभियानान्तर्गतं मङ्गलमयं वृक्षारोपणम् अभवत्। श्रीमतो मनमोहनकालस्य आध्यक्ष्ये समित्या अश्वत्थवटनिम्बप्रभृतीनां महावृक्षाणां बालाः पादपाः समारोपिताः। ते च वृक्षरक्षककवचैः सम्यक् संरक्षिताः।

अस्मिन् पवित्रे कर्मणि संस्थापकनिदेशकः कण्डवालरामभरोसः उपाध्यक्षश्चौधरिदिनेशः कोषाध्यक्षः कालमनमोहनः सङ्घटनमन्त्री नेगिनन्दनसिंहश्चेति प्रमुखपदारूढाः सोत्साहं भागम् अगृह्णन्।

तस्मिन्नेवावसरे उत्तरप्रदेशात् पर्यटनायैवागताः केचन छात्रास्तत्रासन्। तेषां नामानि सैनिकनीरजः वर्मयशः काश्यपरोहितः काश्यपहिमांशुः काश्यपकपिलश्चेति। तान् विलोक्य संस्थापकः कण्डवालमहोदयः आश्रमस्य माहात्म्यं वर्णयन् प्रोवाच। अहो भाग्यं युष्माकं यद् यूयं तस्मिन्नेव स्थाने स्थिताः यतः स्वदेशस्य भारतवर्षमिति नाम प्रतिष्ठितम्।

पुनश्च स तान् स्वसमित्या सञ्चालितस्य विश्वपर्यावरणहितकरस्य सत्यदेवाभियानस्य विषयेऽबोधयत्। कथितं च तेन वृक्षा एव वस्तुतो देवाः ये केवलं ददति न तु किञ्चिद् याचन्ते। अत एवास्मिन् अभियाने भवन्तोऽपि सम्मिलिता भूत्वा पुण्यं लभन्तामिति। एतच्छ्रुत्वा ते छात्रा महोत्साहेन वृक्षारोपणे साहाय्यम् अकुर्वन्॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button