संस्कृतभारतीपञ्जाबप्रान्तस्य सहयोगेन दशदिवसीय-संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं

प्रेषक:-अजयकुमार-आर्य: । पञ्जाबराज्ये होशियारपुरस्य खड़कानगरे स्थिते श्रीमती उर्मिलादेवी-आयुर्वैदिकचिकित्सीय महाविद्यालयः एवञ्च संस्कृतभारती पञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय-संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम् ।
उद्घाटनकार्यक्रमस्य शुभारम्भः दीपप्रज्वालनेन दीपमन्त्रेण च अभवत्। छात्रेभ्यः धन्वन्तरिवन्दना अपि प्रस्तुता। मुख्यातिथिमहोदयस्य परिचयं डॉ. नीतिनशर्मा महोदयः कारितवान् ।
अस्मिन् उद्घाटनकार्यक्रमे मुख्यातिथिरूपेण संस्कृतभारती-पञ्जाबप्रान्तस्य प्रान्तप्रशिक्षणप्रमुखः डॉ. नीरजकुमारवर्यः (साधु-आश्रम-महाविद्यालयस्य संस्कृतविभागे सहायकाचार्यः) आसीत्। अस्मिन्नैवावसरे आयुर्वैदिकमहाविद्यालयस्य प्राचार्या डॉ. मृदुशर्मा, डी. फार्मेसीविभागस्य प्राचार्या डॉ. मीनाक्षीनाथ च उपस्थिते आस्ताम् । प्राचार्यमहोदया मुख्यातिथीनां स्वागतम् आयुर्वेदिकपादपेन विधत्तम् । मुख्यातिथिमहोदयः उक्तं यत् संस्कृतभाषायाः रक्षणम् अस्माकं हस्ते एव अस्ति यतोsहि संस्कृतम् अस्माकं रक्षणं करोति। यदि आयुर्वेदमपि पठामः तर्हि संस्कृतम् आवश्यकं भवति । महोदयः उक्तं यत् “संस्कृतं पठित्वा जीवने व समाजे परिवर्तनं भवेत्” एतदेव अस्माकं उद्देश्यमस्ति । महाविद्यालयस्य प्राचार्यमहोदया अपि स्वोद्बोधने उक्तं यत् आयुर्वेदः संस्कृतम् इव प्राचीनमस्ति। सर्वेषां कृते एषा कार्यशाला उपयोगिनी भविष्यति। अस्यां कार्यशालायां विस्तारिका रजनी एवञ्च विस्तारकः मनीषः शिक्षकरूपेण भविष्यत: । कार्यक्रमे महाविद्यालयस्य-क्रियाशरीरविभागस्य प्रो. डॉ. अनुराधा, साहित्यसंहिताविभागस्य रीडर डॉ. दीपिकामिन्हास:, प्रो. डॉ. राजबीरः, संस्कृतविभागस्य सहायकाचार्यः डॉ. नीतिनशर्मा इत्यादयः उपस्थिताः आसन् । अस्यां कार्यशालायां शताधिक-छात्राः भागं गृह्णन्त: सन्ति।