स्वाधीनतायाः कृते संघर्षं- लाला-लाजपतराय:
“शेर-ए-पञ्जाबः” लाला-लाजपतरायः - लेखकः डॉ. राहुलः सहायकाचार्यः पञ्जाबी-विश्वविद्यालयः, पटियाला

एषा भारत-भूमिः वीराणां धीराणाञ्च जननी वर्तते। अस्यां भूमौ नैकाः महापुरुषाः जाताः ये स्वजीवनचिन्तां विनैव देशस्य स्वाधीनतायाः कृते संघर्षं कृतवन्तः। अस्मिन् क्रमे लाला-लाजपतरायस्य स्थानं महत्त्वपूर्णम् अस्ति। लाला-लाजपतरायः देशाय स्वप्राणाहुतिं दत्तवान्। सः गर्मदलस्य मुख्य-नेता आसीत्। तस्य जन्म पञ्चषष्ट्यधिकाष्टादशशतके पञ्जाबप्रान्तस्य फिरोजपुर-नामके स्थाने अभवत्। लालामहोदस्य प्रारम्भिकी शिक्षा रेवाड़ीनगरे स्थिते राजकीय-उच्च विद्यालये सम्पन्ना। बाल्यकालतः एव तस्य लेखने भाषणे च बहुः रुचिः अविद्यत्। अशीत्यधिके अष्टादशतमे वर्षे सः लाहौरस्थिते राजकीयमहाविद्यालये प्रविष्टवान्। महाविद्यालये तेषां मेलनं लाला हंसराजेन गुरुदत्तेन सह अभवत्। तत्र आर्य-समाजस्य माध्यमेन सः स्वाधीनता-आंदोलने सम्मिलित्वान्।
तेन जगरांवनगरे हिसारे रोहतके च अधिवक्ता रूपेण कार्यं कृतम्। ते आर्यसमाजस्य सक्रिय-कार्यकर्ता आसन्, अतः सः दयानन्द-महाविद्यालयाय धन-सङग्रहणम् अपि अकुर्वन्। तस्मिन् समये एव देशे विभिन्नेषु स्थानेषु अकालस्य समस्या जाता। तदाऽपि लाला लाजपतरायः अकालपीडितेषु स्थानेषु सेवाकार्यं संपादित्वान्। यदा बङ्गालस्य विभाजनं जातं तदा सः तस्य बहुः अधिकं विरोधं कृतवान्।
चतुर्दशाधिके नवदशवर्षे ते ब्रिटेन-देशं गतवन्तः। ततः सप्तदशाधिके नवदशशतके अमेरिकां प्राप्य तत्र इण्डियन होम रूल ऑफ अमेरिका इति नाम्ना एकं सङ्गठनं स्थापित्वान्। विंशत्यधिकनवदशशतकपर्यन्तं ते अमेरिकायां अवसत्। भारतम् आगत्य ते कलकत्तानगरे काङ्ग्रेसेत्यस्य एकस्य विशेषसत्रस्य अध्यक्षताम् अकुर्वन्। महात्मागाँधीद्वारा सञ्चालितस्य असहयोगान्दोलनस्य लाला-लाजपतरायः पञ्जाबे नेतृत्वम् कृतवान्। त्र्योविंशत्यधिक-नवदशशतकपर्यन्तं ते कारावासे अपि गतवन्तः।
रौलेट-एक्ट इत्यस्य सम्पूर्ण-देशे विरोधम् अभवत्। पञ्जाबे रौलेट-एक्ट-विरोधी आंदोलनस्य नेतृत्वं लाला-लाजपतरायेण कृतम्। लालामहोदस्य नेतृत्वे आन्दोलनं सम्पूर्णे पञ्जाबे प्रसरत्। इतः परम् एव जनेषु एषः शेर-ए-पञ्जाबः इति उपाधिना विख्यातः। अष्टाविंशत्यधिके नवदशशतके साइमन-कमीशन् भारतं आगतवत्। अक्टूबर मासस्य त्रिंशत् दिनाङ्के लाहौरनगरे कमीशनस्य विरोधे लाला-लाजपतरायस्य नेतृत्वे भीषण-जन-सम्मर्दः एकत्रित अभवत् तस्मिन्नैव सम्मर्दे आङ्गलसैनिकैः शिरसि दण्डप्रहारेभ्यः मूर्छितः एषः अष्टाविंशत्यधिकनवदशशतके नवंबर मासे सप्तदशदिनाङ्के भारतमातुः चरणयोः निजजीवनं समर्पितवान्।