उत्तराखण्डकण्वनगरीकोटद्वार

अखिलभारतीय-उत्तराखण्डमहासभाया: विशेषसम्मानसमारोह: विशिष्टोपलब्धीनां सम्माने आयोजित:

🔵 शिक्षाक्षेत्रे सम्मानितोभवत् संस्कृतशिक्षक: कुलदीमैन्दोला । 🔵 स्वातन्त्र्यसंग्रामसैनानी स्व.दयालसिंह: असवाल:, लाटसूबेदार: कैप्टनबलभद्रसिंहनेगीसम्मानसमारोहश्च मातृकालीमहाभोजकार्यक्रम: सम्पादित: कार्यक्रमसंयोजकेन मनमोहनदुदपुडीवर्येण।

कोटद्वारं। अखिलभारतीय-उत्तराखण्डमहासभाभारतस्य सौजन्येन स्वातन्त्र्यसंग्रामसैनानी स्व.दयालसिंह: असवाल:, लाटसूबेदार: कैप्टनबलभद्रसिंहनेगीसम्मानसमारोहश्च मातृकालीमहाभोजप्रसादसहितं कोटद्वार-तल्ला-मोटाढाके आयोजितम्।

अस्मिन् समारोहे विविधक्षेत्रेषु विशिष्टसेवाप्रदातारः सन्मानिताः। उत्तराखण्डसम्मानम्, वरिष्ठनागरिकसन्मानम्, सैनिकक्षेत्रे सम्मानम्, हास्यकलाक्षेत्रे, कृषिक्षेत्रे, संगीतक्षेत्रे, संस्कृतसाहित्यक्षेत्रे, सांस्कृतिककलाक्षेत्रे, प्रशासनिकक्षेत्रे, शिक्षाक्षेत्रे, पत्रकारिताक्षेत्रे, विधिक्षेत्रे इत्यादिषु क्षेत्रेषु प्रमुखव्यक्तयः प्रतिष्ठिताः सम्मानिता: अभवन् ।

सम्मानितव्यक्तिषु प्रमुखाः –
श्रीमान् मयंकप्रकाशकोठारी (भारतीय), श्रीमान् सूबेदारनारायणसिंहभण्डारी (पूर्वसैनिक), श्रीमती बिन्दीदेवी (पत्नी कारगिल-शहीद स्व. दलवीरसिंहरावत:), श्रीमान् सन्दीपकुमार: (हास्यकलाकार), सरदारसुरजीतसिंहचीमा, श्रीमान् आदित्यरावत:, श्री पित्रशरणजोशी, श्रीमान् राकेन्द्रसिंहरौथाण: (लोककलाकार:), श्रीमान् पंकजकुमारतिवारी (उपनिरिक्षक:, उ.प्र.पुलिस), कुमारी सृष्टिजोशी, श्रीमान् कुलदीपमैन्दोला (संस्कृतशिक्षक:, रा.इ.का.कोटद्वारं), श्रीमान् सुधीरपाण्डेय: (प्रवक्ता, मोटाढाक्), श्री खुर्शीद-आलम: (अधिवक्ता, नजीबाबाद:), श्रीमती शोभाबहुगुणाभण्डारी (अधिवक्ता, कोटद्वारं), श्रीमान् पवनशर्मा (आध्यात्मिकगुरु:, उत्तरकाशी), श्रीमान् विनोदकिरणगौनियाल:, श्रीमान् महावीरसिंहरमन: (मुख्यसंपादक:, “गढ़-आवाजन्यूजचैनल्”), श्रीमान् नईमसिद्दीकी (संपादक:, “लाईवटीएवी उ.प्र./उत्तराखण्डं”), श्रीमान् अम्बेशपन्त: (सम्पादक:, डिस्कवर 24 न्यूज) इत्यादयः सम्मानिता: अभवन्।

विशिष्ट-अतिथिषु प्रमुखाः – डॉ० मनोजकुमार: (महानिदेशक:, राष्ट्रीयसहकारीविकासनिगम:, सहकारितामंत्रालय:, दिल्ली), श्रीमान् बी.एस.नेगी (सी.एम.डी, आई.एच.एम.एस.कॉलेज, कोटद्वारं), श्रीमान् मुज्जअम-इंजीनियर् (अध्यक्ष:, न.प.म. नजीबाबाद:), श्री प्रशान्तमहासागर: (सदस्य:, जिलापंचायत: बिजनौरं, अध्यक्ष:, भीम-आर्मी), श्रीमती पुष्पादेवी, श्री तीरथसिंहअसवाल:, श्रीमती सन्तोषीदेवी, श्रीमती अरुणाविष्ट:, श्रीमती शनिदेवी, श्रीमती मधुदेवी, श्रीमती लक्ष्मीदेवी, श्रीमती धूमादेवी, श्रीमती सबरीदेवी च आसन्

डा. मनोजकुमारवर्य: स्ववक्तव्ये कथितं यत् अस्मिन पुण्यप्रसंगे अहं परमसन्तोषं अनुभवामि यत् अखिलभारतीय-उत्तराखण्डमहासभा विविधक्षेत्रेषु उत्कृष्टकार्यं कुर्वन्तः महानुभवान् सन्मानयन्ति। अस्यां भूमौ जन्मलभमानानां वीरानां, सेवाव्रतानां, शिक्षाविदां, साहित्यकाराणां, कलाकाराणां च सम्माननं केवलं कृतज्ञतायाः प्रतीकं न, अपितु समाजस्य प्रेरणास्रोतः अपि भवति।

उत्तराखण्डस्य संस्कृति, परम्परा, साहित्यं च विश्वे विशेषस्थानं धारयति। अत्र न केवलं प्रकृतिसौन्दर्यं अपितु वीरता, सेवा, त्यागः च नितरां दृष्टिगोचरः। यथा गङ्गायाः पावनसलिला सर्वं विषं गृहीत्वा लोकहिताय प्रवहति, तथैव अत्रजनाः अपि राष्ट्रहिताय निरन्तरं समर्पिताः सन्ति।

अद्यतनयुगः परिवर्तनशीलः अस्ति। नूतनप्रवृत्तिषु अग्रसरं भवितव्यम्, किन्तु अस्माकं मूल्यमानानि, संस्काराः, धर्मः च सदा संरक्षितव्यः। संस्कृतिः आत्मायाः प्रतिबिम्बं अस्ति, यदि अस्माकं मूलसंस्कृतिः नष्टा भवति, तर्हि अस्माकं अस्मिता अपि क्षीयते।

अहं हृदयतः अभिनन्दामि यत्, विविधक्षेत्रेषु सेवारताः महानुभावाः अत्र सम्मानिताः। शिक्षकाः, सैनिकाः, पत्रकाराः, कलाकाराः, अधिवक्तारः, समाजसेवकाः च राष्ट्रनिर्माणे महत्त्वपूर्णं योगदानं कुर्वन्ति। एते सर्वे व्यक्तयः केवलं कार्यकर्तारः न, अपितु समाजस्य दीपः सन्ति।

*शिक्षा प्रथमा न संस्कार: प्रथम:, संस्कार: एव शिक्षा*

श्रीबी.एस.नेगी उक्तवान् यत् अस्मिन् स्वर्णावसरे अहम् अखिलभारतीय-उत्तराखण्डमहासभायाः आयोजकान्, सन्मानितान् व्यक्तीन्, तथा समस्त उपस्थितजनान् हार्दिकं अभिनन्दामि। एषः उत्सवः केवलं सम्मानसमारोहः न, अपितु उत्तराखण्डस्य गरिमायाः पुनः प्रतिपादनं अस्ति। अस्मिन् पुण्यप्रसङ्गे अहं परमसन्तोषं अनुभवामि यत् अखिलभारतीय-उत्तराखण्डमहासभा विविधक्षेत्रेषु विशिष्टकार्यं कुर्वतां महनीयपुरुषाणां सम्मानं करोति। अत्र उपस्थिताः सर्वे सम्मानार्हाः सन्ति, यतः ते स्वीयक्षेत्रेषु अतिश्रेष्ठं कार्यं कृत्वा समाजस्य उन्नतिं वर्धयन्ति। उत्तराखण्डभूमिः केवलं प्रकृतिसौन्दर्येन समृद्धा न, अपितु विद्वज्जनैः, वीरपुरुषैः, संस्कृतिप्रेमिभिः च अलङ्कृता अस्ति। अत्र धैर्यं, साहसं, सेवा, शिक्षणं च विशेषरूपेण प्रदृश्यते। अद्यतनयुगे अस्माभिः केवलं भौतिकविकासः न, अपितु सांस्कृतिकसम्पदां च संरक्षितुं प्रयत्नः कर्तव्यः। शिक्षायाः महत्त्वं केवलं विद्यार्जनं न, अपितु उत्तमसंस्कारस्य स्थापना अपि अस्ति। यदि शिक्षया सह धर्मः, नैतिकता, देशभक्तिः च मिलन्ति, तर्हि राष्ट्रस्य उन्नति निश्चितं भवति। मुज्जअम-इंजीनियरः अपि अवदत् यत् एतत् आयोजनम् उत्तराखण्डस्य सांस्कृतिकं गौरवम् उद्धर्षयति इति।
कार्यक्रमस्य संयोजकः श्रीमान् मनमोहनदुदपुड़ी, संस्थापक-राष्ट्रीयमहासचिवः,अखिलभारतीय-उत्तराखण्डमहासभाया: अनेन कार्यक्रमेन उत्तराखण्डस्य गौरवशालिनीसंस्कृतिः, सेवाभावनायाः प्रतिष्ठा च पुनः प्रतिपादिता।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button