मातृभाषादिवसस्य उपलक्ष्ये पञ्चदिवसीयसाहित्योत्सवस्य आयोजनं
पञ्जाबप्रान्तसंस्कृत-पालि-विभागस्य च संस्कृतभारतीपञ्जाबस्य संयुक्ततत्त्वावधाने संस्कृतविज्ञानप्रदर्शिनी, संस्कृतवस्तुप्रदर्शिनी साहित्यविक्रयकेन्द्रञ्च संजायते

वार्ताहर:- अजयकुमार-आर्य: । पटियालास्थिते पञ्जाबी-विश्वविद्यालये मातृभाषादिवसस्य उपलक्ष्ये पञ्चदिवसीयसाहित्योत्सवस्य आयोजनं जायमानमस्ति । अस्मिन् कार्यक्रमे संस्कृतभाषायाः प्रचाराय प्रसाराय च जनान् आकर्षयितुं “साईंस इन संस्कृत” इत्यस्य प्रदर्शिन्या: व्यवस्थापि कृतास्ति । स पञ्जाबप्रान्त: संस्कृत-पालि-विभागस्य च अध्यक्षेन डॉ. वीरेन्द्रकुमारवर्येण सूचितं यत् संस्कृतभारती पञ्जाबः, संस्कृत-पालि-विभागः इत्यनयोः संयुक्ततत्त्वावधाने कार्यक्रमस्थले संस्कृतविज्ञानप्रदर्शिनी, संस्कृतवस्तुप्रदर्शिनी साहित्यविक्रयकेन्द्रञ्च स्थापितमस्ति।
अध्यक्षवर्येण उक्तं यत् अस्यां प्रदर्शिन्यां अस्माकं भारतीयज्ञानपरम्पराया: वैशिष्ट्यं प्रदर्शितमस्ति । अत्र प्रत्येकं वैज्ञानिकसन्दर्भस्य श्लोकं दत्त्वा पुनः तस्य अर्थः आङ्गलभाषायां हिन्दीभाषायां च उद्धृतम् अस्ति। संस्कृतप्रेमिजनानां कृते अपि अयं उत्तम: अवसर: वर्तते यत् स्वरुच्यानुगुणं पुस्तकानि चित्वा तस्य क्रयणं कर्तुं शक्नुवन्ति। साहित्यविक्रयकेन्द्रे प्रत्येकेन विषयेण सम्बन्धितानि संस्कृतपुस्तकानि उपलब्धानि सन्ति। अस्मिन् कार्यक्रमे व्यवस्थायां स्वसेवकत्वेन संस्कृत-पालि-विभागस्य अध्यापकाः, छात्राः एवं संस्कृतभारत्याः विस्तारकः विस्तारिका च संलग्नाः सन्ति।