उत्तराखण्ड

शिक्षायाः परमं लक्ष्यं उत्तमं मानव-निर्माणं वर्तते – “डा. चांदकिरणसलूजा”

संस्कृत-शिक्षक-कौशलविकासप्रशिक्षणकार्यशालाया: भव्यशुभारम्भ:

हरिद्वारे उत्तराखण्ड-संस्कृत-अकादम्या संस्कृतविद्यालय-महाविद्यालयेषु कार्यरतानां शिक्षकेभ्यः शिक्षण-कौशल-विकासार्थं त्रिदिवसीय-प्रशिक्षण-कार्यशाला भव्यतया आरब्धा। अकादम्याः सभागारे दीप-प्रज्वलनं कृत्वा कार्यशालाया: विधिवत् शुभारम्भः अभवत्।

अस्मिन् प्रसङ्गे अकादम्याः सचिवः डॉ. वाजश्रवा आर्य: स्वगर्जनया अवदत् यत् उत्तराखण्डराज्यस्य द्वितीया-राजभाषा संस्कृतम् अस्ति। अतः अस्या संरक्षणं संवर्धनं च आवश्यकम्। एषा अकादमी निरन्तरं संस्कृतस्य प्रचार-प्रसारं प्रति समर्पिता वर्तते। शिक्षकेभ्यः नवीनतमशिक्षण-प्रणालीनां ज्ञानं दातुं प्रतिष्ठित-प्रशिक्षकानां मार्गदर्शनं संजायते ।

कार्यशाला-संयोजकः किशोरीलाल-रतूड़ी अवदत् यत् अस्याः कार्यशालायाः व्यवस्थापनं संस्कृत-संवर्धन-प्रतिष्ठानस्य दिल्लीप्रशिक्षक-मण्डलेन कृतम्। अत्र षट् प्रशिक्षकानां मार्गदर्शनस्य साहाय्येन त्रिदिवसेषु पञ्चदश-सत्राणि आयोज्यन्ते। अस्मिन् प्रशिक्षण-कार्यक्रमे उत्तराखण्डराज्यस्य पञ्चाशत् शिक्षका: भागं गृह्णन्ति।

मुख्यप्रशिक्षकः डॉ. चांदकिरणसलूजामहोदयः प्रशिक्षणस्य आरम्भे शिक्षकेभ्यः सम्बोधनं कृत्वा अवदत् यत्— संस्कृतं केवलं भाषा न अस्ति अपितु जीवन-शैली अपि अस्ति। शिक्षायाः मूलोद्देश्यं छात्राणां सर्वांगीण-विकासः एव। अस्मिन् शिक्षकेषु महत्त्वपूर्णं दायित्वं विद्यते। शिक्षणं केवलं वृत्तिः न, अपितु उत्तमं सेवाकार्यं च। शिक्षायाः परमं लक्ष्यं उत्तमं मानव-निर्माणं वर्तते। शिक्षकाः शिक्षणे सरलतां योजयन्तु, परीक्षा छात्राणां ‘प्राण-प्रदानस्य’ कारणं भवतु, न तु ‘प्राण-हरणस्य’।

तस्मिन्नेव अवसरे संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. दिनेशचन्द्र-शास्त्री अपि स्वगर्जनया उक्तवान् यत्— संस्कृतं राज्यस्य द्वितीया राजभाषा अस्ति, अतः सर्वे संस्कृतविद्यालय-महाविद्यालय-शिक्षकाः एषु प्रशिक्षण-सत्रेषु भागं ग्रहीतुम् अर्हन्ति।

अस्मिन कार्यक्रमे संस्कृत-संवर्धन-प्रतिष्ठानस्य पालकः लक्ष्मीनरसिंहन्, विष्णु-उपाध्याय:, पारूलसिंह:, सुनीलशर्मा, मनमोहनशर्मा च विशेष-रूपेण उपस्थिताः तथा सहैव उत्तराखण्ड-संस्कृत-अकादम्याः शोधाधिकारी हरीशगुरुरानी, प्रशासनिक-अधिकारी लीला रावत:, रमा कठैत: च अपि कार्यक्रमे सक्रियतया भागं गृहीतवन्तः। अत्रैव विवेक:, मोहितरावत , प्रीतम:, पंकजनेगी, सुशील:, आकांक्षा त्रिपाठी, अवधेश:, ओमप्रकाशभट्ट:, अश्विनी, लक्ष्मीचन्द: इत्यादयः अपि सम्मानिताः संस्कृत-सेवकाः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button