उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

अंताराष्ट्रियमातृभाषादिवसे लोककलाकार- रामरतनकाला-स्मरणोत्सव: आचरित:

नगर-निगम-प्रेक्षागृह-कण्वनगरी-कोटद्वारे प्रमुख-अतिथिरूपेण महापौर: शैलेंद्रसिंहरावत: आगत्य धाद-लोकभाषा-एकांशस्य लोकभाषा-संरक्षणाय कृतानां प्रयत्नानां प्रशंसाम् अकरोत्

उत्तराखण्डे पौड़ीजनपदस्य कण्वनगरीकोटद्वारे
“धादलोकभाषा-एकांश”-संस्थाद्वारा भव्यः कार्यक्रमः आयोजितः अभवत्। कार्यक्रमे स्वर्गीयरामरतनकाला-महोदयस्य व्यक्तित्वस्य वर्णनं कृतं तथैव संस्कृतिसंरक्षणस्य तैः कृताः प्रयत्नाः अपि चर्चिताः। तस्य गीतानां मंचनं कृत्वा सर्वै: श्रद्धाञ्जलिः समर्पितः।

नगर-निगम-प्रेक्षागृह-कण्वनगरी-कोटद्वारे आयोजिते अस्मिन् समारोहे प्रमुख-अतिथिरूपेण महापौर: शैलेंद्रसिंहरावत: आगत्य धाद-लोकभाषा-एकांशस्य लोकभाषा-संरक्षणाय कृतानां प्रयत्नानां प्रशंसा अकरोत्। सः अवदत् यत् संस्कृतिसंरक्षणाय अस्याः संस्थायाः अभियानं प्रारब्धं, यस्मिन् सर्वे जना: भागं ग्रहीतव्याः। पूर्वं समाजः संस्कृत्या संस्कारेण च संलग्नः आसीत्, परंतु अधुना युवासन्तति: अधिकारान् ज्ञातुं समर्था अस्ति, किन्तु कर्तव्यज्ञानात् विमुखा। एषः दोषः यूनां स्वसंस्कृतितः दूरत्वेन भवति।

विशिष्ट-अतिथयः – रंगकर्मी श्रीशडोभाल:, वरिष्ठ-संस्कृतिकर्मी यशोधरडबराल:, आकाशवाण्याः पूर्व-निदेशकः चक्रधर-कंडवाल: च स्व. रामरतन-काला-महोदयेन सह व्यतीतान् क्षणान् स्मृत्वा तं लोकसंस्कृत्या संलग्नः सच्च कलाकारः इति निरूपितवन्तः।

अनुसूया-प्रसाद-डंगवाल-महोदयस्य अध्यक्षतायाम् आयोजिते कार्यक्रमे संस्थायाः संरक्षकः जगमोहनसिंहबिष्ट:, अध्यक्षा रिद्धि-भट्ट:, सचिवः राजेश-खत्री, तथा त्रिभुवन-उनियाल:, सोहन-मैंदोला, सरिता-मैंदोला, पंकज-ध्यानी, रश्मि-बहुखण्डी, स्व. रामरतन-काला-महोदयस्य पत्नी कमला-देवी, पुत्रः गौरव-काला अपि उपस्थिताः आसन्।

गढ़-कला-सांस्कृतिक-संस्था-मंच-पौड़ी इत्यस्मात् लोकगायकः अनिल-बिष्ट: तथा तस्य दलं च रंगारङ्गं गढ़वाली-कार्यक्रमं प्रस्तुतवन्तः। स्व. रामरतन-काला-महोदयस्य अमर-काव्यम् “हिमालयस्य पुत्रा: वयं वीराः, देशसेवायां वयं अग्रे गच्छामः” इति जितेंद्र-काला-महोदयेन सुमधुररूपेण गीयते स्म।

*”खाडू लापता” इत्यस्य नाटकस्य प्रस्तुति: आसीत् रमणीया*

राजकीयमहाविद्यालयस्य विद्यार्थिभिः प्रसिद्धः गढ़वाली-हास्य-नाटकः “खाडू लापता” प्रस्तूयते स्म। लोककलाकारः जितेंद्र-काला-महोदयः तस्य निर्देशनं कृतवान्। अभिनेतारः – आकाश:, आकाशसिंह-रावत:, हिमांशु-रावत:, अंजलि-नेगी, उत्कर्ष-नेगी च अस्य नाटकस्य मंचनं कृतवन्तः।
सरिता-मैंदोला-दलस्य “सैंणी को मरयूं छौं…” अस्य गीतस्य नृत्य-प्रस्तुते: अपि विशेष-आकर्षणं आसीत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button