सर्वकारस्य संस्कृतनीतिविषये औदासीन्यं
संस्कृतशिक्षामन्त्रिणा कथितं यत् नीति: निर्मातुं न शक्यते

उत्तराखण्डे संचलिते विधानसभासदनसत्रे
माननीयः महन्तदिलीपरावतः संस्कृतभाषायाः नीतिनिर्माणं कथं न सम्पन्नम् इति पृष्टवान्। अस्मिन्नेव प्रसंगे विधानसभाध्यक्षा ऋतुभूषणखण्डूरी-महोदया स्पष्टतया उचु:— “द्वितीयं किञ्चिदपि न वदतु, स्पष्टम् उत्तरं ददातु इति।” तदा संस्कृतशिक्षामन्त्री डॉ. धनसिंह रावत-महोदयः उत्तरं दत्तवान्— “द्वितीयं स्पष्टं क्तुं न शक्नुमः, नीतिं न सम्पादयितुं शक्नुमः।”
तदा सदनस्य अग्रिमकार्वाही अग्रे गता । संस्कृतविषये नीतिरेव नास्ति एतेन सम्पूर्णसमाज: खिन्न: अभवत्। सर्वकारं प्रतिरोष: अपि द्रष्टुं शक्यते तत: पूर्वं सम्भाषणरूपेण कथितं यत् लोकहितं मम करणीयं । परञ्च कथने करणे च मानसिकतां ज्ञातुं शक्यते । संस्कृताय क्रियमाणकार्याय विदुषामपि नीतिसन्दर्भे विशेषाग्रह: वर्तते-
संस्कृतसंवर्धनं – आवश्यकाः नीतयः अपेक्षिताश्च प्रयासाः
संस्कृतं केवलं धार्मिकानुष्ठानानां मन्दिराणां च भाषा न भवतु, अपितु आधुनिक-भाषारूपेण प्रतिष्ठां प्राप्नुयात्। अस्मिन सन्दर्भे संस्कृतनीतौ निम्नलिखिताः बिन्दवः विशेषतया समीक्षितव्याः—
१. शिक्षापद्धतौ संस्कृतस्य प्रभावी समावेशः
प्राथमिक-स्तरात् उच्चशिक्षापर्यन्तं संस्कृतम् अनिवार्यं भवतु।
संस्कृतविद्यालयाः आधुनिकसुविधाभिः युक्ताः सन्तु।
संस्कृताध्यापकानां नियुक्तिः प्रोत्साहनीया, योग्येभ्यः अध्यापकाभ्यः समुचितं वेतनं सुविधाश्च दातव्याः।
२. संस्कृतं पदसेवापरकं करणीयम्
संस्कृतज्ञानेन युवान: अनुवादकाः, अनुसन्धानकर्तारः, आयुर्वेद-योग-दर्शनादिषु कर्मोपलब्धिं लभेयुः।
संस्कृते तकनीकी-अध्ययनाय पाठ्यक्रमाः विकसिताः स्युः, यतो विज्ञानं, गणितं, संगणकविज्ञानं च संस्कृतेऽपि शिक्षणीयं स्यात्।
३. डिजिटल-माध्यमेन संस्कृतस्य प्रचारः
संस्कृत-अध्ययनाय अन्तर्जालीय-पाठ्यक्रमाः, मोबाइल-एप्स, डिजिटल-ग्रन्थालयाः च विकसितव्याः।
सामाजिक-माध्यमेषु संस्कृतस्य प्रचारः विस्तारितव्यः।
४. प्रशासनिक-विधायी-क्षेत्रयोः संस्कृतस्य उपयोगः
सरकारीकार्यालयेषु न्यायपालिका-मण्डलेषु च संस्कृतं द्वितीयराजभाषारूपेण स्थापितव्यं।
सरकारी-निर्णयपत्रेषु, वेबसाइट्स-माध्यमेन च संस्कृतस्य समावेशः करणीयः।
५. धार्मिक-सांस्कृतिक-केंद्राणां माध्यमेन प्रचारः
चतुर्धामयात्रायां संस्कृतसंवादं प्रोत्साहितुं प्रयत्नः करणीयः।
मन्दिरेषु संस्कृत-शिक्षाकेंद्राणां स्थापना करणीया, यत्र तीर्थयात्रिकाः श्रद्धालवः च संस्कृतस्य मूलज्ञानं प्राप्नुयुः।
संस्कृतसंवर्धनं – केवलं औपचारिकता वा नूतनायाः दिशायाः प्रारम्भः?
सर्वकारः नीति-निर्मातारश्च एतद् ज्ञातुं प्रयत्नं कुर्वन्तु यत् संस्कृतं केवलं पूजापाठस्य भाषा न अस्ति, अपितु भारतीयसंस्कृतेः जीवमान-प्रतीकं वर्तते। यदि संस्कृतभाषायाः संरक्षणार्थं स्पष्टनीतिः न निर्मीयते, तर्हि सा केवलं ग्रन्थेषु अनुसंधानेषु च सीमिता भविष्यति।
अतः संस्कृतसंवर्धनाय केवलं चर्चाः, गोष्ठ्यः, तथा औपचारिकनिर्णयाः न पर्याप्ताः। वास्तवेऽस्मिन देशे संस्कृतस्य पुनरुत्थानाय सर्वकारेण समाजेन च सम्यक्प्रयत्नं करणीयम्।







