पंजाब

सप्तदिवसीया-संस्कृत – सम्भाषण- कार्यशाला

पञ्जाबराज्ये घडूंवा-नगरे सरस्वती-आयुर्वैदिक-चिकित्सालयः चिकित्सकीयमहविद्यालयश्च एवं संस्कृतभारती - पञ्जाब: अनयो: संयुक्ततत्त्वाधाने संजायते कार्यशाला

प्रेषक:- अजयकुमार: । पञ्जाबराज्ये घडूंआँ-नगरे सरस्वती आयुर्वैदिक चिकित्सालयः चिकित्सकीय महविद्यालयश्च एवं संस्कृतभारती – पञ्जाब: अनयो: संयुक्ततत्त्वाधाने सप्तदिवसीयाया: संस्कृत – संभाषण- कार्यशालायाः उद्धाटनं सञ्जातम् । उद्घाटनसत्रस्य शुभारम्भः दीपज्वालनेन अभवत्। अस्मिन् कार्यक्रमे मुख्यवक्ता रूपेण महाविद्यालयस्य संहिता एवं सिद्धान्तविभागस्य अध्यक्षा अमनदीपमहोदया समुपस्थिता । तया स्वकीये उद्बोधने कार्यशालाविषये विस्तरेण उक्तम् यत्-अस्याः कार्यशालायाः उद्देश्या: सरलतया संस्कृत-संभाषणस्य शिक्षणम् अस्ति। ये प्रतिभागिनः कार्यशालायां भागं गृह्णन्तः सन्ति ते निश्चयेन संस्कृत-संभाषणे दक्षाः भविष्यन्ति। सर्वेषां कृते एषा कार्यशाला उपयोगिनी भविष्यति।

अस्यां कार्यशालायां अशीत्याधिकाः छात्राः भागं स्वीकुर्वन्तः सन्ति। महाविद्यालयस्य पक्षतः शिबिरचालक-मनीषस्य नारिकेलफलेन स्वागतं जातम् । अस्मिन् अवसरे संहिता एवं सिध्दांत विभागस्य डॉ. नरेश: , डॉ. विशेष: , डॉ. सुनील: , डॉ. चिङ्के , डॉ. अङ्किता , डॉ. विक्रमः , डॉ. कल्याणः , डॉ. अमृतपालः डॉ. प्रियङ्कादय: प्रमुखा: शिक्षका: उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button