शोधार्थिनी मनीषा श्रेष्ठ-शोधार्थीरूपेण पुरस्कृता
2024 वर्षान्तर्गतं 16 शोधपत्राणां प्रकाशनं कारितवती

प्रेषक:- अजयकुमार: ।हरियाणा। महेंद्रगढस्य हरियाणाकेंद्रीयविश्वविद्यालयस्य वार्षिकोत्सवे पुरस्कारवितरणसमारोहस्य आयोजनमभवत्। अस्मिन् समारोहे संस्कृतविभागस्य शोधार्थिनीं मनीषां श्रेष्ठ-शोधार्थी 2024 “पब्लिकेशन इन स्कूल ऑफ ह्यूमिनिटी एंड सोशल साइंसेस” इत्युपाधिना सम्मानिता । अत्र मुख्यातिथि: रूपेण महेन्द्रगढ़-भिवानीलोकसभायाः सांसद: चौधरीधर्मवीरसिंह: एवं कुलपति: प्रो. टंकेश्वरमहोदयश्च मनीषायाः उज्जवलभविष्यस्य कामानां कृतवन्तौ साधुवादञ्च दत्तवन्तौ। अस्य पुरस्कारस्य श्रेयः मनीषा स्वशोधनिर्देशिकायै डॉ सुमनरानीमहोदयायै एवं परिवारजनेभ्यः दत्तवती । शोधार्थिनी मनीषा 2024 वर्षान्तर्गते 16 शोधपत्राणां प्रकाशनं कारितवती अनेनैव, तया एकस्य पुस्तकस्य लेखनं च कृतम् । सा उपपञ्चविंशति: राष्ट्रीय अंतरराष्ट्रीय संगोष्ठीषु कार्यशालाषु च भागं गृहीतवती।