उत्तराखण्ड

संस्कृतसमस्यानां समाधानार्थं प्रदेशस्तरीयस्य संस्कृतविद्यालयसंघटनस्य निर्माणं

द्वितीयराजभाषारूपेण अनुकूलविकास: न अभवत्

उत्तराखण्डप्रदेशे सर्वेषां संस्कृतविद्यालयानां शिक्षकेभ्यः कर्मचाऱिभ्यश्च एका महासंगोष्ठी प्रेमनगराश्रमे हरिद्वारे आयोजिता अभवत् । यत्र प्रदेशस्य सर्वेभ्यः संस्कृतविद्यालयेभ्यः आगतानां शिक्षकेभ्यः विविधप्रकारेण व्याप्तानां समस्यानां समाधानार्थं प्रदेशस्तरीयस्य संस्कृतविद्यालयसंघटनस्य निर्माणं कर्तुं निर्णयः कृतः।

संगोष्ठ्याम् उपस्थितैः सर्वैः शिक्षकैः कर्मचाऱिभिश्च “माध्यमिकसंस्कृतशिक्षककर्मचारीसंघटनम् उत्तराखण्डप्रदेश:” इत्यनेन नाम्ना उक्तसंघटनस्य निर्णयेन स्वीकृतम्। ततः परं उक्तसंघटने अनसूयाप्रसादसुन्दरियालः, प्रधानाचार्यः, संस्कृत-उत्तरमध्यमाविद्यालयः भुवनेश्वरीसिद्धपीठः पौडीनगरम्, प्रदेशाध्यक्षपदे नियुक्तः। डॉ॰ जनार्दनप्रसादकैरवान:, प्रभारीप्रधानाचार्यः मुनीश्वरवेदवेदाङ्गसंस्कृतविद्यालयः ऋषिकेशनगरम्, प्रदेशमहामंत्री पदे नियुक्तः।

उपाध्यक्षपदे डॉ॰ नवीनचन्द्रपन्तः (ऋषिकुलविद्यापीठः ब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयः हरिद्वारम्) तथा डॉ॰ राजेन्द्रभट्टः (कपिलाश्रमी संस्कृतउत्तरमध्यमा विद्यालयः हल्द्वानी नैनीतालम्) नियुक्तौ। संघटनमंत्री पदे डॉ॰ मुकेशखण्डूरी (श्रीशिवनाथसंस्कृतउत्तरमध्यमा विद्यालयः देहरादूनम्), सहसंघटनमंत्री पदे डॉ॰ सतीशचन्द्रभट्टः (श्रीशक्तिपीठाश्रमः मानीला अल्मोडा) च नियुक्तौ।

कोषाध्यक्षपदे मनोजकुमारद्विवेदी (श्रीनपालीसंस्कृत-उत्तरमध्यमा विद्यालयः ऋषिकेश:) नियुक्तः। प्रकाशचन्द्रनैनवालः, डॉ॰ श्यामलालगौडः, डॉ॰ भानुप्रकाश-उनियालः, कैलाशगैरोलः च सदस्यरूपेण मनोनीताः।

एवमेव सुरेन्द्रदत्तभट्टः, ओमप्रकाशपूर्वालः, जगदीशप्रसादसकलानी, महेशानंदसुयालः, डॉ॰ महावीरगैरोलः इत्येते संरक्षकमण्डलस्य दायित्वं प्राप्तवन्तः।

नवनिर्वाचितप्रदेशाध्यक्षः अनसूयाप्रसादसुंदरियालः उक्तवान् यत् उत्तराखण्डप्रदेशस्य द्वितीया राजभाषा संस्कृतभाषा अस्ति, परन्तु येन प्रकारेण प्रदेशे संस्कृतविद्यालयानां विकासस्य सम्भावना आसीत्, तथैव न जातः।

प्रदेशस्य संस्कृतविद्यार्थिनां, विद्यालयानां, शिक्षकाणां च मूलभूतसमस्यानां समाधानार्थं संघटनं निरन्तरं कार्यं करिष्यति। सः उक्तवान् यत् शीघ्रमेव विभागीयाधिकारिभि: सह सर्वकार: च सम्पर्कं संगठनं संस्कृतविकासे स्वीयां भूमिकां च निर्वहणं कर्तुं कर्तव्यं करिष्यति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button