उत्तराखण्ड

उत्तराखण्डविद्वत्सभया (पंजी०) वास्तुविशेषाङ्कस्य भव्यं विमोचनं विहितम्।

देहरादूनम्, (धीरजमैठाणी)। उत्तराखण्डविद्वत्सभाया: (पंजी०) तत्वावधानेन विशेष: कार्यक्रम: मनोभावने पथियाश्रये , गुरु मार्गे, पटेलनगरे, देहरादूने अपराह्णे परमपूज्यसंरक्षकमण्डलस्य विशेषे सान्निध्ये सम्पन्नः, आचार्य: श्रीविजेन्द्रप्रसादममगाईं अध्यक्षतां वहन् समागतमान्यजनेभ्यो धन्यवादं ज्ञापयन् वास्तुविशेषाङ्कस्य विमोचनस्य शुभाशंसनं व्यक्तीकृतवान्।

अमृतकुम्भवास्तुविशेषाङ्कस्मारिकायाः विमोचनम् – संवत् २०८२ मध्ये प्रकाशितायाः अस्याः विशेषस्मारिकायाः केन्द्रविषयं वास्तुविज्ञानं आध्यात्मिकमूल्यानि च वर्तते। पूर्वपदाधिकारिणां, विज्ञापनदातृणां, सम्पादकस्य आचार्यराजेशामोलीमहाभागस्य च सम्मानसमारोहः अत्र सविशेषं समायोजितम्। सभायाः पत्रिकायां विज्ञापनं दत्तवद्भ्यः गणमान्यजनेभ्योऽत्र सश्रद्धं सम्माननं कृतम्।
दीपप्रथ्ज्वलनेन १०८श्री महन्तकृष्णगिरिमहाभागेन, उत्तराखण्डविद्वत्सभायाः संरक्षकेण शुभारंभः कृतः। तेन ब्रह्मसमाजे निवेदनं कृतःं यत् तिथिनिर्णये विवेकपूर्वकं निर्णयं दत्त्वा भ्रान्तीनां निराकरणं कृत्वा समाजस्य मार्गदर्शनं कुर्वन्तु इति।

समस्तविद्वज्जनैः स्वस्तिवाचनपूर्वकं कार्यक्रमस्य शुभारम्भः कृतः। विज्ञापनदातृभ्यः अथ च पूर्वपदाधिकारिभ्यः प्रशस्तिपत्रं अंगवस्त्रं च प्रदाय सम्माननं विहितम्। पूज्य: धर्माधिकारी आचार्य: श्रीराधाकृष्णथपलियालः (बी.के.टी.सी.) अस्य गरिममयस्य कार्यक्रमस्य मुख्यातिथित्वेन सभायै बद्रीनाथकेदारनाथमन्दिरसमितौ समावेशनस्य आश्वासनं दत्तवान्।

कार्यक्रमस्य सफलसंयोजने श्रीउमेशमिनोचामहोदयस्य (मनोभावनमन्दिरस्य) विशेषसहयोगः प्राप्तः। सम्पादक: राजेन्द्रामोलीमहोदयः सम्पादनसंबद्धानुभवान् व्यक्तीकृत्य वास्तुशास्त्रस्य वैशिष्ट्यम् अवर्णयत्।
मञ्चसञ्चालनं महासचिवः दिनेश प्रसाद भट्टः सकुशलम् अकरोत् ।

अखिलभारतीयब्राह्मणमहासभाया: उत्तराखण्डशाखायाः अध्यक्षः मनमोहनशर्मा, शशीशर्मा, महेशकौशिक, ललितशर्मा, कल्याणचक्रवर्ती, नेपालीब्राह्मणमहासभायाः अध्यक्षः रामप्रसादोपाध्यायः, उपाध्यक्षः थानेश्वरउपाध्यायः, महासचिवः पुरुषोत्तमगौतमः, संरक्षकः पवनशर्मा, डॉ. रामभूषणबिजल्वाणः, रामलखनगैरोला, महाराजः श्रीरविगिरिमहाभागः, भरतरामतिवारी च इत्येभिः सहितः उत्तराखण्डविद्वत्सभायाः समस्तपदाधिकारिगणः कार्यकारिणीसदस्यदलं अस्मिन् महत्वपूर्णकार्यक्रमे सहभागम् अकुरुताम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button