प्रो. इन्दुपाण्डेयखण्डूरी नवप्राध्यापकानां प्रेरणास्रोत: – ‘ प्रो. हरभजनसिंहचौहान:’
हेमवतीनन्दनगढवालविश्वविद्यालये दर्शनशास्त्रविभागस्य प्राध्यापिका विभागाध्यक्षा च डॉ. इन्दुपाण्डेयखण्डूरी चतुस्त्रिंशत्वर्षस्य सेवानुष्ठानेन सह सेवानिवृत्तिं प्राप्तवती

हेमवतीनन्दनगढवालविश्वविद्यालये श्रीनगरे उत्तराखण्डप्रदेशे दर्शनशास्त्रविभागे प्राध्यापिका विभागाध्यक्षा च डॉ. इन्दुपाण्डेयखण्डूरी चतुस्त्रिंशत्वर्षस्य सेवानुष्ठानेन सह सेवाविरामं प्राप्तवती। तया “मालवीयमिशन्” इत्यस्य शिक्षकप्रशिक्षणकेन्द्रस्य विश्वविद्यालयानुदानायोगस्य निदेशकस्य अतिरिक्तप्रभारः अपि स्वीकृत: आसीत्। सा विश्वविद्यालयस्य पारदर्शिताधिकारी पुस्तकालयसमितेः च समन्वायिका अपि आसीत्। राष्ट्रीयस्वयंसेवकस्य कार्यक्रमाधिकारी, सहायकनिदेशिका छात्रकल्याणस्य, सहायकपरीक्षानियन्ता चासीत् तया विश्वविद्यालये प्रभृतानि कार्याणि सम्पादितानि ।
तस्या सेवानिवृत्तिसंदर्भे दर्शनशास्त्रविभागेन सम्मानकार्यक्रमः आयोजितः। अस्य कार्यक्रमस्य अध्यक्षता प्रो. हरभजनसिंहचौहान:, डीन्-स्कूल-ऑफ्-ह्यूमैनिटीज्-एण्ड्- सोशल्-साइंसेस् इति कृतवान् । प्रो. हरभजनसिंहचौहानः उक्तवान् यत् प्रो. इन्दुभगिनी वाराणस्यां बनारसहिन्दूविश्वविद्यालये तथा प्रयागे इलाहाबादविश्वविद्यालये स्नातकं स्नातकोत्तरं च कृतवती। तया जवाहरलालनेहरुविश्वविद्यालयात् शोपाधि: प्राप्ता। राष्ट्रीयपात्रतापरीक्षां च लघुशोधवृत्तिपरीक्षामुत्तीर्य सा शोधोपाधिं सम्प्राप्य १९९१ तमे वर्षे गढवालविश्वविद्यालये अध्यापनं प्रारब्धम्। स्वीयया उत्तमसेवया सा नवप्राध्यापकानां प्रेरणास्रोतः अभवत्।
तस्या: सेवानिवृत्तिसमारोहे सर्वोच्चन्यायालयस्य
-अधिवक्ता श्रीतुंगेशपाण्डेयः उक्तवान् यत् सा उत्तमा अध्येता शिक्षिका च आसीत्। अत्र कार्यक्रमे सम्मिलिता डॉ. शिप्रा त्रिपाठी उक्तवती यत् प्रो. इन्दुमहोदयया चत्वारः शोधपरियोजनाः पूर्णाः कृताः। तस्याः नाम्नि पञ्च पुस्तकानि, द्विचत्वारिंशत् शोधपत्राणि अन्ताराष्ट्रिय-राष्ट्रियस्तरीयपत्रिकासु प्रकाशितानि, च विंशति: शोधपत्राणि सम्पादितपुस्तकेषु सन्ति।
मनोविज्ञानविभागाध्यक्षा प्रो. मंजूपाण्डे उक्तवती यत् सा दक्षिणकोरियादेशं, ग्रीसदेशं, रोमानियादेशं च शोधप्रस्तावनायाः निमित्तं गतवती। दर्शननैतिकताविषये राष्ट्रिय-अन्ताराष्ट्रियसम्मेलनेषु पञ्चाशतः अधिकानि शोधपत्राणि प्रस्तुतवती, शिक्षकेभ्यः आयोजितप्रशिक्षणकार्यक्रमेषु शताधिकानि व्याख्यानानि दत्तवती।
*विभिन्नपत्रिकानां स्वतन्त्रलेखिकां प्राध्यापका: शिक्षणेत्तरकर्मचारिणः, छात्राः च ससम्मानेन सेवानिवृत्तिं दत्तवन्त: *
दर्शनशास्त्रविभागे सहायकाचार्यपदे सेवारता डॉ. कविताभट्टशैलपुत्री कार्यक्रमस्य संचालनं कृत्वा उक्तवती यत् प्रो. इन्दु: ‘एथिक्स्, लॉजिक् एण्ड् फिलॉसफी’ इत्यादीनां शोधपत्रिकानां सम्पादकीयमण्डले आसीत्, हिंदुस्तान् टाईम्स्, टाइम्स् ऑफ् इंडिया इत्यादिषु पत्रिकासु अपि स्वतंत्रलेखिका आसीत्। अतः सा अनेकेषां अध्येतृणां प्रेरणास्रोतः अस्ति। डॉ. ऋषिका वर्मा, सहायकाचार्या, सर्वेभ्यः धन्यवादं प्रदत्तवती।
अस्मिन्नेव कार्यक्रमे रेखा डंगवालः, ओमप्रकाशः, मनोजः, डॉ. शीरिंग्, डॉ. योगेशशर्मा, डॉ. मनोजतंवरः, अभिनवभारतं, आलोकः रावत:, चन्दनः इत्यादयः शिक्षकाः, शोधार्थिनः, शिक्षणेत्तरकर्मचारिणः, छात्राः च सम्मिल्य प्रो. इन्दुमहोदयायै भावीजीवनस्य शुभाशंसां प्रेषितवन्तः।