उत्तराखण्ड

नवार्णमन्त्रस्य उपासना च नवग्रहाणां नियन्त्रणं “आचार्यकीर्तिवल्लभमैन्दोला”

महामन्त्रः शक्तिसाधनासु श्रेष्ठतमः तथा सर्वेषु मन्त्रेषु स्तोत्रेषु च महत्त्वपूर्णः अस्ति

मातृदुर्गायाः साधना-उपासना-क्रमे “नवार्णमन्त्रः” महत्त्वपूर्णः महामन्त्रः अस्ति। नवार्णं अर्थात् नवाक्षराणां मन्त्रः, यस्य माध्यमेन नवग्रहान् नियन्त्रयितुं शक्यते। अनेन सर्वेषु क्षेत्रेषु पूर्णसिद्धिः लभ्यते तथा भगवत्याः दुर्गायाः पूर्णम् आशीर्वादं प्राप्नुयात्।

अयं महामन्त्रः शक्तिसाधनायाः श्रेष्ठतमः तथा सर्वेषु मन्त्रेषु-स्तोत्रेषु च महत्त्वपूर्णः अस्ति। अयं मन्त्रः मातु: आदिशक्तेः त्रयाणां स्वरूपाणां—माता महासरस्वती, माता महालक्ष्मी, माता महाकाली च एकत्रसाधनायाः पूर्णं प्रभावं वहति। अपि च, एषः मन्त्रः मातृदुर्गायाः नवस्वरूपाणां संयुक्तः मन्त्रः अस्ति, मन्त्र द्वारा नवग्रहाः अपि शमं प्राप्नुवन्ति।

नवार्णमन्त्रः अस्ति-

“ऐं ह्रीं क्लीं चामुण्डायै विच्चे”

नवाक्षरयुक्तेऽस्मिन् अद्भुते नवार्णमन्त्रे देवीदुर्गायाः नवशक्तयः संनिहिताः, यः नवग्रहैः सम्बन्धितः अस्ति।

“ऐं”—सरस्वत्याः बीजमन्त्रः अस्ति।

“ह्रीं”—महालक्ष्म्याः बीजमन्त्रः अस्ति।

“क्लीं”—महाकाल्याः बीजमन्त्रः अस्ति।

नवार्णमन्त्रस्य नवशक्तयः एवं नवग्रहाणां नियन्त्रणम्

1. “ऐं”—मातृशैलपुत्र्या: उपासना, सूर्यग्रहस्य नियन्त्रणम्।

2. “ह्रीं”—मातृब्रह्मचारिण्याः उपासना, चन्द्रग्रहस्य नियन्त्रणम्।

3. “क्लीं”—मातृचन्द्रघण्टायाः उपासना, मङ्गलग्रहस्य नियन्त्रणम्।

4. “चा”—मातृकूष्माण्डायाः उपासना, बुधग्रहस्य नियन्त्रणम्।

5. “मुं”—मातृस्कन्दमातुः उपासना, बृहस्पतिग्रहस्य नियन्त्रणम्।

6. “डा”—मातृकात्यायन्याः उपासना, शुक्रग्रहस्य नियन्त्रणम्।

7. “यै”—मातृकालरात्र्याः उपासना, शनिग्रहस्य नियन्त्रणम्।

8. “वि”—मातृमहागौर्याः उपासना, राहुग्रहस्य नियन्त्रणम्।

9. “चे”—मातृसिद्धिदात्र्याः उपासना, केतुग्रहस्य नियन्त्रणम्।

एतस्य मन्त्रस्य नवलक्षजपं कृत्वा, तत्सम्बन्धितं हवनं, तर्पणम्, मार्जनम्, ब्राह्मणभोजनं च कृत्वा, मातृजगदम्बायाः साक्षात् दर्शनं सम्भवति।

सामान्यः साधकः अथवा गार्हस्थजनः “ऐं ह्रीं क्लीं चामुण्डायै विच्चे” इति जपं कर्तुं शक्नोति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button