पंजाब

दश-दिवसीय – संस्कृतसम्भाषण-कार्यशालायाः   समापनं

अजयकुमार-आर्य: । सरस्वती-आयुर्वैदिक-चिकित्सालयः एवं चिकित्सकीय महाविद्यालयः तथा संस्कृतभारती पञ्जाबप्रान्त: इत्यनयोः संयुक्ततत्त्वाधाने आयोजिता दश-दिवसीय – संस्कृतसम्भाषण-कार्यशालायाः अद्य  समापनं जातम् । समापनकार्यक्रमस्य शुभारम्भः अतिथिभिः दीपप्रज्ज्वालनेन एवञ्च दीपमन्त्रेण जातम् । कार्यक्रमे छात्रेभ्यः सरस्वतीवन्दना, संकल्पः, उद्देश्यगीतम्, अनुभवः, नाटकम् इत्यादयः प्रस्तुत्यः कृता:। अस्मिन् कार्यक्रमे मुख्यातिथि- रूपेण डॉ. वीरेन्द्रकुमारः संस्कृतभारती, पञ्जाबप्रान्ताध्यक्षवर्यः आसीत् । महोदयेन  ‘आयुर्वेदं संस्कृत माध्यमेन कथं पठामः’ तथा ‘आयुर्वैदिकजनानां कृते संस्कृतं किमर्थम् आवश्यकम् ‘ तथा चरकसंहिता च सुश्रुत संहितायाः विषये निजविचारा: प्रस्तुता: ।  मुख्यवक्तारूपेण पंजाबप्रान्तस्य प्रान्तसहमन्त्री श्रीमन् अजय आर्य: उपस्थित: आसीत् । महोदयेन संस्कृतस्य रक्षणं कथं भवेत् इत्यस्मिन् विषये बोधितम् । श्रीमन् गोस्वामीवर्यः सरस्वती आयुर्वैदिक महाविद्यालयस्य डायरेक्टर आसीत् । महोदयेन प्राचीनशिक्षा -पद्धत्याः विषये उक्तम् । प्राचार्यया डॉ. शारदा महोदयया आगतानाम् अतिथीनां उपहारेण स्वागतं कृतम् । अस्यावसरे डॉ. अमनदीप महोदया संहिता विभागाध्यक्षा,श्रीमन् नरेशवर्यः संस्कृतविभागस्य आचार्यः  च उपस्थिताः आसन्। कार्यक्रमेऽस्मिन् ७५ प्रतिभागिन: आसन् । प्राचार्य- महोदयया  महाविद्यालय- पक्षतः मनीष-विस्तारकस्य रजनी विस्तारिकाया: च सम्मान: कृतः । कार्यक्रमे विभिन्नाः प्रस्तुत्यः छात्रैः छात्राभिश्च प्रस्तुता: । कार्यक्रमेsस्मिन्  डॉ. ओमनदीपवर्यः विभागसंयोजकः, डॉ. रविदत्तकौशिकवर्यः जिलासम्पर्कप्रमुखः, डॉ.सुनीलः , डॉ. अङ्किता , डॉ. नैन्सी, डॉ. प्रियङ्का , डॉ. नितिनः , डॉ. बिन्दिया , डॉ. शिल्पा , डॉ. अरविन्द्र , डॉ. निकिता , डॉ. अंशुलसहितं अन्ये गणमान्यसदस्या: च उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button