संस्कृतभारतीपञ्जाबस्य नगरसंगोष्ठी सञ्जाता

अजयकुमार-आर्य: । पञ्जाबस्य मासनाजनपदान्तर्गते भिख्खीनगरे संस्कृतभारतीपञ्जाबस्य नगरसंगोष्ठी समाजाता।
गोष्ठ्यां संस्कृतभारतीपञ्जाबस्य अध्यक्ष: श्रीमान् डॉ वीरेन्द्रकुमार:, सह-मन्त्री श्री अजयकुमार:, पटियालाविभागसंयोजक: डॉ ओमन:, पटियाला शिक्षणप्रमुख: डॉ राहुल: , संस्कृतभारत्या: विस्तारक: श्रीमान् मनीष कुमार: भिख्खीनगरस्य विविधस्थानेभ्य: आगता: संस्कृतप्रेमिणश्च उपस्थिता: आसन् ।
कार्यक्रमस्यारम्भ: श्रीराहुलेण कारितेन संस्कृतगीतेन अभवत् पुन: अध्यक्षीयसम्बोधने डॉ. वीरेन्द्रकुमारेण उक्तं यत् संस्कृतम् अस्माकं स्वकीयं भाषा अस्ति, संस्कृतभाषा अन्यानां भाषाणां विरोधं न अपितु तासां भाषाणां पोषणं करोति, संस्कृतं पठित्वा जना: निजक्षेत्रेषु निजकार्येषु च वैशिष्ट्यं प्राप्तुं शक्नुवन्ति। सहमन्त्रिणा श्रीमता आर्येण संस्कृतभारत्या: परिचयं ब्रुवन् उक्तं यत् संस्कृतभारती विश्वस्य सप्तविंशति: देशेषु कार्यं कुर्वती अस्ति, पञ्जाबस्थानां चलतां कार्यक्रमाणामपि तेन विस्तरेण परिचयमुपस्थापितम् ।
डॉ ओमनशर्मणा वर्तमानकाले संस्कृतस्य आवश्यकतां विषये छात्रा: नगरीयाश्च उद्बोधिता: । संगोष्ठ्यां उपस्थितै: जनै: मतैक्यं कृत्वा अग्रिमेषु दिनेषु भिख्खी नगरे संस्कृतशिबिरस्यायोजनाय अपि निश्चयं कृतम् । मानसाजनपदे संस्कृतकार्यसम्पादनाय श्रीमन्तं कुलभूषणशारदां मानसाजनपदसंयोजकरूपेण दायित्वं प्रददम् ।
संगोष्ठ्यां भिख्खीत: श्रीमान् दुष्यन्त: शारदा, श्री प्रवीणकुमार:, श्री नवदीप ऋषि,श्री गचरप्रीतगौतम,श्री कुलभूषणशारदा उपस्थिता: आसन् ।