उत्तराखण्डदेहरादून

उत्तराखण्डसंस्कृताकादम्या: योगदानेन संस्कृतशिक्षाविभागस्य प्रदर्शनीद्वारा गणतन्त्रदिवसे द्वितीयपुरस्कारेण इतिहासं रचितं

🔵संस्कृताकादम्याः सचिवः डॉ० वाजश्रवा आर्य: उक्तवान् यत् राज्यगठनानन्तरं प्रथमवारं उत्तराखण्डसंस्कृताकादम्या निर्मिता संस्कृतशिक्षाविभागस्य प्रदर्शनी राज्यस्य माननीयराज्यपालेन माननीयमुख्यमंत्रिणा च सम्मानिता। 🔵

गणतन्त्रदिवसस्य अवसरं प्रति देहरादूननगरे पथसंचलनमञ्चे आयोजिते महोत्सवे राज्यस्य माननीयराज्यपालवर्यस्य च माननीयमुख्यमंत्रिण:, मुख्यसचिवस्य च उपस्थितौ राज्यस्य विविधविभागानां योजनाः, कार्यक्रमाः च प्रदर्शिताः अभवन्

राज्यगठनानन्तरं प्रथमवारं सचिवसंस्कृतशिक्षात: दीपककुमारस्य प्रथमाह्वानस्य अन्तर्गतं उत्तराखण्डसंस्कृताकादम्या “भारतीयज्ञानपरम्परा” इति संकल्पनाधारेण संस्कृतशिक्षाविभागस्य प्रदर्शनी प्रदर्शिताभवत्।

अस्याम् प्रदर्शिन्यां आर्षकन्या द्रोणस्थली देहरादूनं, श्रीमद्दयानन्द: आर्षज्योतिर्मठगुरुकुलं पौंधा देहरादूनं, श्रीपरशुरामचतुर्वेदसंस्कृतविद्यालय: देहरादूनं, गुरुरामरायलक्ष्मणसंस्कृतमहाविद्यालय: देहरादूनं, श्रीशिवनाथसंस्कृतमहाविद्यालय: देहरादूनम् इत्येतेषां छात्रछात्राणां सहभागिता दृष्टव्या आसीत्।

उत्तराखण्डसंस्कृताकादम्या हरिद्वारस्य “भारतीयज्ञानपरम्परा” इति संकल्पनाधारेण निर्मिता शोभायमानाप्रदर्शनी पथसंचलने द्वितीयस्थानं प्राप्तवती।

संस्कृताकादम्याः सचिवः डॉ० वाजश्रवा आर्य: उक्तवान् यत् राज्यगठनानन्तरं प्रथमवारं उत्तराखण्डसंस्कृताकादम्या निर्मिता संस्कृतशिक्षाविभागस्य प्रदर्शनी राज्यस्य माननीयराज्यपालेन माननीयमुख्यमंत्रिणा च सम्मानिता।

अस्यां प्रदर्शन्याम् उपनिदेशकः पद्माकरमिश्रः, सहायकनिदेशकः चण्डीप्रसादः, रामभूषणः, दीपशिखा, कविता, मनोजः शर्मा, नवीनभट्टः, जनार्दनकैरवानः इत्यादीनां महत्वपूर्णं सहयोगम् अभवत्। निदेशकः संस्कृतशिक्षा डॉ० आनन्दभारद्वाज: विभागस्य अस्याः उपलब्धेः निमित्तं उत्तराखण्डसंस्कृताकादम्या: तथा संस्कृतशिक्षाविभागस्य समस्ताधिकारिणां शिक्षकाणां च अभिनन्दनं कृतवान्। निदेशकसंस्कृतशिक्षात: आनन्दभारद्वाजवर्येण प्रोक्तं यत् विभागस्य उपलब्धिरियं उत्तराखण्डसंस्कृताकादम्या: प्रयासेन च संस्कृतशिक्षाविभागस्य सर्वेषाम् अधिकारिणां , शिक्षकाणां
साफल्यम् अस्ति तै: सर्वेषाम् कृते वर्धापनानि प्रदत्तानि

अयं क्षणः संस्कृतभाषाया: तथा भारतीयज्ञानपरम्परायाः अभिवर्धनाय गौरवपूर्णोवसर: सञ्जात: ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button