उत्तराखण्डदेहरादून

गणतन्त्रदिवसे उत्तराखण्डे संस्कृतशिक्षाविभागेन पथसंचलनप्रदर्शिन्यां विजित: द्वितीयपुरस्कार:

🔵उत्तराखण्डस्थापनाया: रजतजयन्तीवर्षे गणतन्त्रदिवसस्य विशिष्टं योगदानं । 🔵पथसंचलनं संस्कृतवाचनं प्रथमबारम् ऐतिहासिकं। 🔵संस्कृतशिक्षाविभागस्य अद्भुतयोगदानं द्वितीयराजभाषाया: संवर्धने ।

देहरादूनं। उत्तराखण्डराज्यस्य रजतजयंती वर्षे गणतंत्रदिवसस्य अवसरे 26 जनवरी 2025 तिथौ समारोहसंचलनक्षेत्रे देहरादूनस्थे आयोजिते पथसंचलनप्रदर्शनमहोत्सवे संस्कृतशिक्षाविभागस्य प्रथमा आकर्षणयुक्ता प्रदर्शनी प्रथमतः प्रदर्शिता।

राज्यस्य द्वितीयराजभाषा संस्कृतम् अधिष्ठानं कृत्वा सज्जिता सा प्रदर्शनी राज्यपालेन द्वितीयपुरस्कारेण सम्मानिता। सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः प्रोक्तवान् यत् विभागीय: सचिवः दीपककुमारः तथा निदेशकः डॉ. आनंदभारद्वाजः इत्येतयोः नेतृत्वे तथा मार्गदर्शने प्रथमतः प्रस्तुता सा प्रदर्शनी राज्यस्य गौरवस्य प्रतीकम् अभवत्।

सः अपि अवदत् यत् उत्तराखण्डसंस्कृताकादम्याः विशेषं सहयोगं प्राप्य निर्मिता एषा प्रदर्शिनी भारतीयज्ञानपरंपरां प्रकाशयति। अस्यां प्रदर्शिन्यां आर्षकन्यागुरुकुलमहाविद्यालयस्य छात्राः, परशुरामचतुर्वेदसंस्कृतविद्यालयस्य छात्राः च वेदपाठं कृत्वा संस्कृतसंस्कृतेः वैभवं प्रकाशयन्ति स्म। आर्षज्योर्तिमठपौंधायाः छात्राः च योगाभ्यासं प्रदर्शयन्ति स्म।

एषः कार्यक्रमः समग्रं पथसंचलनक्षेत्रं प्राचीनभारतीयसंस्कृतेः गौरवेण गुंजायमानं कृतवान्। प्रथमवारे दृश्यं प्रदर्शयित्वा संस्कृतशिक्षाविभागः द्वितीयं पुरस्कारं प्राप्तवान्, यः सम्पूर्णविभागस्य स्वाभिमानस्य विषयः अभवत्।

शिक्षाया: एवं संस्कृतशिक्षामन्त्री डॉ. धनसिंहरावतः संस्कृतशिक्षाविभागं अभिनन्दयन् उवाच यत् प्रथमतः प्रस्तुता प्रदर्शनी प्रथमवारम् एव द्वितीयं स्थानं प्राप्तं कृत्वा विभागस्य यशः विस्तारितम्। प्रदर्शिनीप्रतियोगितायाम् प्रथमस्थानं सूचनाविभागः, द्वितीयं स्थानं संस्कृतशिक्षाविभागः, तृतीयं स्थानं विद्यालयीशिक्षाविभागः च प्राप्तं कृतवन्तः।

एषा सफलता संस्कृतस्य समृद्धिं प्रचारं च उज्ज्वलताम् अभिव्यक्तं करोति। संस्कृतशिक्षाविभागस्य सम्पूर्णायं दलं अभिनन्दनीयम् अस्ति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button