पंजाबसंस्कृत भारती
Trending

दशदिनात्मकं संस्कृतसम्भाषणशिविरं

अजयकुमार-आर्य: । पटियालाजनपदस्य समानानगरान्तर्गते नागरीग्रामे “प्रिंसीपल मोहनलाल विजडम स्कूल-इत्यस्य परिसरे दशदिनात्मकं संस्कृत-सम्भाषण-शिबिरस्यायोजनं जातम्। शिबिरविषये सूचनां प्रददद् प्रिंसिपल मोहनलालेन उक्तं यत् संस्कृतभाषा भारतीयानाम् आत्मानं जागर्यति अत: सर्वयत्नविधानेन संस्कृतम् अवश्यमेव पठितव्यम् । वर्गस्य शिक्षक:, समानाप्रान्ताध्यक्ष: श्रीमान् गणेशभट्ट: वार्ताहरम् उक्तं यत् एतत् सम्भाषणशिबिरं छात्र-छात्रासु संस्कृतसम्भाषणकौशलवर्धनाय अत्यन्तम् आवश्यकमस्ति। एतत्शिबरं षड् फरवरी पर्यन्तं चलिष्यति। उद्घाटने प्राचार्या श्रीमति अमिता वालिया, कार्यक्रमस्य संरक्षक: श्रीमान् मोहनलालशर्मा उपस्थिता: आसन् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button