संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देहली
Trending

समायोजिता विद्यालयगणस्य संगोष्ठी

सम्भाषणात् शास्त्रं प्रति

वार्ताहर:-डा.नीतीशः। देहल्यां माध्यमिकसर्वकारीयविद्यालयेषु अध्यापनरतानाम् अध्यापकानां प्रशिक्षणकार्यक्रम: SCERT द्वारा संस्कृतसंवर्द्धनप्रतिष्ठानस्य माध्यमेन प्रचलन्नस्ति। अत: सम्प्रति प्राथमिकविद्यालयायेषु अध्यापनरतानाम् अध्यापकानाम् , अथ च निजविद्यालयेषु अध्यापनरतानाम् अध्यापकानामपि नूतनशिक्षानुसारं प्रशिक्षणकार्यक्रमस्य आवश्यकतामाश्रित्य एक: गण: निर्मित:। अस्य गणस्य प्रमुख: डा. परमेशशर्ममहोदय: वर्त्तते। अत्र चत्वार: गणसदस्या: डा. सुमित: शर्मा , डा. नीतीश: , डा. उदयप्रकाश:
डा. दीप्ति च वर्त्तन्ते।

गणप्रमुखस्य श्रीमत: डा. परमेशशर्ममहोदयस्य निर्देशने अद्य 02/03/2023 दिनांके बृहस्पतिवासरे प्राथमिक विद्यालयायेषु अध्यापनरतानाम् अध्यापकानाम् , अथ च निजविद्यालयेषु अध्यापनरतानाम् अध्यापकानामपि नूतनशिक्षानुसारं प्रशिक्षणकार्यक्रममाश्रित्य एका गोष्ठी आयोजिता। तत्र श्रीमान् डा. परमेशशर्ममहाभाग: स्वीयान् विचारान् प्रस्तुतवान्। महोदय: उक्तवान् यत् सर्वप्रथमं कार्यपंचकं प्रति संकल्प: करणीय:
1. प्रशिक्षणकार्यक्रमार्थां चतुर्णाम् विद्यालयानां निश्चय: करणीय:।
2. सर्वेषामपि विद्यालयानां जॉन अनुसारं सूची निर्मातव्या।
3. सरलसामग्रीनिर्माणम्।
4. अन्यविषयाध्यापकानामपि मानसनिर्माणम्।
5. अन्यविषयाध्यापकेभ्य: सामग्रीप्रदानम्।

प्रांतमंत्री श्रीमान् देवकीनन्दनमहोदय: उक्तवान् यत् जूनमासे नूतनशिक्षानुसारं विंशतिदिवसात्मक: अध्यापकप्रशिक्षणकार्यक्रम: आयोज्यते। तत्र न्यूनातिन्यूनं द्विशतमध्यापका: भवेयु: इति संकल्प: भवेत्।

अत्र माध्यमिकसर्वकारीयविद्यालयेषु अध्यापनरतानाम् अतिथि-अध्यापकानामपि प्रशिक्षणकार्यक्रम: आयोजनीय: इति गणसदस्यानां सारभूतो विचार: अपि समागत:।
कार्यक्रममिममाश्रित्य अग्रिमा गोष्ठी अग्रीमे बृहस्पतिवासरे 09/03/2023 दिनांके भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button