संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

G-20 इत्यस्य “वसुधैव कुटुम्बकम्” प्रतीके संस्कृतवाक्पटुता प्रतियोगिता

रामनगर। ०३/०३/२०२३ दिनाङ्के संस्कृतविभागीयपरिषद्द्वारा रामनगरस्य पीएनजी- राजकीयस्नातकोत्तरमहाविद्यालये “वसुधैव कुटुम्बकम्” इत्यस्मिन् विषये भाषणप्रतियोगिताया: कार्यक्रम: आयोजित: जात: ।
रामनगरे राजकीयस्नातकोत्तरमहाविद्यालये
जी-२० इत्यस्य भारते अध्यक्षतायाः अवसरे अयं कार्यक्रम: आयोजितोभवत् । प्राचार्यसहिताः सर्वे अतिथयः देवीसरस्वत्या: सम्मुखे दीपं प्रज्ज्वाल्य कार्यक्रमस्य उद्घाटनं कृतवन्तः। संस्कृतविभागस्य प्रभारी डॉ. मूलचन्द्रशुक्लः भाषणप्रतियोगितायाः विषये स्वपरिचयभाषणं कुर्वन् “वसुधैव कुटुम्बकम्” इत्यर्थः समग्रः पृथिवी अस्माकं परिवारः एव इत्वोचत् च
“अयं निज: परो वेति गणना लघुचेतसां। उदारचरितानां तु वसुधैव कुटुम्बकं तथा “सर्वे भवन्तु सुखिनः— इत्यादि समाजस्य एकैकं व्यक्तिं प्रति संस्कृतस्य भावनां आत्मसात् कृत्वा परस्परं भ्रातृत्वस्य सन्देशं दत्तवान्। प्रभारीप्राचार्यप्राध्यापक: आर. डी.सिंह: अध्यक्षीयसम्बोधने भारतसर्वकारेण जी-२०-सङ्घस्य अध्यक्षतायाः विषये स्वस्य प्रसन्नतां प्रकटयन् तस्य प्रतीकं “वसुधैव कुटुम्बकम्” इत्यस्मिन् विषये स्वविचारं प्रकटितवान् तथा च अद्य समाजे अस्माकं गृहपरिवारात् बहुस्तरं यावत् इति अवदत् । समग्रपृथिवी अस्माकं परिवारः तदा एव अस्माकं परिवारः यदा विखण्डनं न दृश्यते, एतस्य भावनायाः प्रचारः, प्रसारः, समाजे आत्मनः च करणीयः। अत्र रसायनविज्ञानस्य विभागाध्यक्ष: प्रोफेसर जे. एस. नेगी तथा योगप्रशिक्षक: डॉ. मुरलीधर कापरी निर्णायक: आसीत्। निर्णये जितेन्द्रसिंहरावत: प्रथम:, वेदप्रकाशजोशी द्वितीया तथा इरमनाज तृतीय: तथा भानुवर्मा सान्त्वनापुरस्कारं प्राप्तवन्त: ।अस्मिन् विभिन्नविषयाणां/संकायछात्रा: उत्साहेन भागं गृहीतवन्त: । अन्ते डॉ. मूलचन्द्रशुक्ल: सर्वेषां धन्यवादज्ञापनं कृतवान्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button