संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
गुजरात

श्रीसोमनाथसंस्कृत-विश्वविद्यालयेन अन्ताराष्ट्रियमहिला-दिनोत्सवः समाचरित:

गुजरात। अन्ताराष्ट्रियमहिलादिवसमुपलक्ष्य श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य महिलाधिकारसमितिद्वारा समाजं गत्वा वेरावलस्थाभ्यः महिलाभ्यः विशेषमार्गदर्शनाय “महिलानामाध्यात्मिक-सामाजिक-शैक्षणिकविकासः” इति विषयमुपादाय सायं 4.30 तः 6.00 वादनं यावदेकः सामाजिककार्यक्रमः आयोजितः। कार्यक्रमेऽस्मिन् अध्यक्षत्वेन विराजमाना आसन् विश्वविद्यालयस्य मान्याः कुलपतिवर्याः प्रो. ललितकुमार पटेलमहोदयाः तथा विशिष्टातिथित्वेन “पद्मश्री” इत्यनेन राष्ट्रियपुरस्कारेण समादृता हीरबाई लोबी महाभागा सम्प्राप्ता आसीत्। एतदतिरिच्य विश्वविद्यालयस्य कुलसचिवाः डॉ. दशरथजादवमहोदयाः, अनुस्नातकविभागाध्यक्षाः प्रो. विनोदकुमार झा महोदयाः, प्राचार्याः डॉ. नरेन्द्रकुमार पण्ड्या महोदयाः एवञ्च महिलाधिकारसमित्याः अध्यक्षाः डॉ. उमामहेश्वरी बी. महोदयाः मञ्चासीनाः आसन्। एतैः सह महिलाधिकारसमित्याः सर्वाः सभ्याः, वेरावलनगरात् समागताः सामाजिकमहिलाः, विश्वविद्यालयस्य छात्राश्च कार्यक्रमेऽस्मिन् समुपस्थिता आसन्।
दीपप्राकट्येन मङ्गलाचरणेन च आरब्धेऽस्मिन् कार्यक्रमे समवेतानामादौ वाक्कुसुमैः स्वागतं कृत्वा कार्यक्रमस्य एवञ्च आवर्षं समितिद्वारा सम्पादितगतिविधीनां विवरणमकथयत् महिलाधिकारसमित्याः अध्यक्षा डॉ. उमामहेश्वरी बी. महोदया। ततः पुष्पगुच्छप्रदानाय महानुभावानां स्वागतं विहितम्। प्रसङ्गेऽस्मिन् महानुभावानां करकमलैः स्मृतिचिह्नेन राङ्कवेन च विशिष्टातिथिरूपेण सम्प्राप्तानां श्री हीरबाई लोबी महाभागानां सम्माननं कृतम्। प्रसङ्गेऽस्मिन् विशिष्टवक्त्री श्री हीरबाई लोबी महोदया स्वानुभवजनितदृष्टान्तान् उक्त्वा महिलाभ्यः आध्यात्मिक-सामाजिक-शैक्षणिकविकासाय विशेषमार्गदर्शनमकरोत्। तत्पश्चात् मान्येन कुलसचिववर्येन डॉ. दशरथजादवमहोदयेन प्रासङ्गिकमुद्बोधनमकारि। तदनु कार्यक्रमस्य अध्यक्षाः मान्याः कुलपतयः प्रो. ललितकुमार पटेलमहोदयाः स्वाध्यक्षीयोद्बोधनेन समाजस्य राष्ट्रस्य च समुन्नत्यै महिलानां भूमिकां प्रादर्शयत्। ततः समित्याः सभ्यया श्री शान्ताबेन झाला महोदयया सर्वेषां प्रति धन्यवादाः प्रकटिताः। अन्ते सर्वाभ्यः मिष्ठानं प्रदानेन पूर्णतामन्त्रेण च कार्यक्रमोऽयं सफलतया सम्पन्नो जातः।
सम्पूर्णकार्यक्रमस्य सञ्चालनं महिलाधिकारसमित्याः सभ्यया डॉ. आशाबेन माढकमहोदयया सुचारुतया विहितम्

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button