देशमनोरंजनराजनीतिलाइफस्टाइलव्यापार

राममन्दिरप्राणप्रतिष्ठा- समारोहम् अधिकृत्य————मल्लिकार्जुनखड्गेवर्याय निमन्त्रणे अप्राप्ते विश्वहिन्दूपरिषद्- अध्यक्षस्य प्रतिपादनम्–‘मया राममन्दिरकार्यक्रमस्य निमन्त्रणं दत्तम् आसीत्

राममन्दिरार्थं निमन्त्रणम् अप्राप्तेः विवादः गतेभ्यः केभ्यश्चिद् दिनेभ्यः प्रवर्तते।

राममन्दिरस्य प्राणप्रतिष्ठा समारोहस्य सज्जता सोत्साहेन प्रचलति। तत्र अपरपार्श्वे विपक्षी नेतारः निमन्त्रणस्य अप्राप्तेः प्रतिवादम् कृतवन्तः। कांग्रेस-अध्यक्षस्य मल्लिकार्जुनखड्गेवर्यस्य निमन्त्रणस्य अप्राप्तेः प्रतिपादनम् आधृत्य विश्वहिन्दूपरिषद्-अध्यक्षः आलोककुमारः तस्य खण्डनं कुर्वन् विशदीकृतवान् यत् मन्दिरस्य प्राणप्रतिष्ठासमारोहार्थं निमन्त्रणं दातुं सः स्वयं गतवान् आसीत्। सः राजनीत्याधारितान् दोषारोपान् अस्वीकुर्वन् अवदत्,’ एषः समग्रदेशस्य कार्यक्रमः वर्तते । यदि कांग्रेसस्य अन्यविरोधिदलस्य
नेतारः वा आगच्छन्ति चेत् वयं सानन्देन तेषां स्वागतं करिष्यामः। सः सोनिया गान्धी तथा लोकसभायाः कांग्रेस नेता अधिररन्जनचौधरी एतेभ्यःअपि निमन्त्रणस्य प्रतिपादनं कृतवान्।

राममन्दिरस्य प्राणप्रतिष्ठासमारोहम् अधिकृत्य राजनीतिः अपि आरब्धा। सीपीआइ (एम्)नेता सितारामयेन्च्युरी सर्वकारस्य निर्भत्सनां कुर्वन् अवदत् यत् विषयस्य अस्य राजनीतिकरणं क्रियमाणं दृश्यते। तत्र अन्ये पार्श्वे विश्वहिन्दूपरिषद्-अध्यक्षस्य प्रतिपादनं यत् अयम् तु सम्पूर्णदेशस्य कृते आनंदकालः अस्ति।यदि वयं राजनीतिं कर्तुकामाःअभविष्याम तर्हि विपक्षदलेभ्यः निमन्त्रणं किमर्थं प्रेषितवन्तः स्याम।
सः अवदत् यत् कांग्रेस-अध्यक्षाय निमन्त्रणं दातुं सः स्वयं गतवान् आसीत्। यत्र अधिररन्जनचौधरीं प्रति केचन ट्रस्टसदस्याः गतवन्तः आसन्।

कतिपयाः विपक्षनेतारः निमन्त्रणस्य अप्राप्तेः प्रतिपादनम् कृतवन्तः।
राममन्दिरार्थं निमन्त्रणम् अप्राप्तेः विवादः गतेभ्यः केभ्यश्चिद् दिनेभ्यः प्रवर्तते। एनसीपी इत्यस्य प्रमुखः शरदपवारवर्यः अवदत्,’सः कार्यक्रमस्य कृते किमपि आमन्त्रणं न प्राप्तवान्। बिहारसीएम्- नितीशकुमार: तथा आर्जेडी चीफ इत्येतौ जयन्तचौधरी च अपि उक्तवन्तौ यत् तौ अपि किमपि निमन्त्रणं न प्राप्तवन्तौ। विपक्षीदलानि एतं विषयम् अधिकृत्य सार्वकारम् आक्रान्तुं प्रयतमानाः सन्ति दोषारोपं कुर्वन्ति च,यत् धार्मिककार्यक्रमस्य उपयोजनं राजनीतिहेतुना क्रियमाणं वर्तते। सीतारामयेन्च्युरी प्रथमम् एव स्पष्टीकृतवान् यत् सः कार्यक्रमे अस्मिन् भागं न गृहिष्यति। इति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button