संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

संस्कृतभारती-पञ्जाबप्रान्तस्य तत्त्वावधाने पटियालाजनपदे संस्कृतगणेशवन्दनया गीताज्ञानमहायज्ञस्य सम्पूर्ति:

"संस्कृतभाषा न केवलं धर्मशास्त्राणां भाषा अपितु योगस्य अपि भाषास्ति"------ श्रीराजीवकौशल: ।। ✓✓।। मुख्यवक्तृरूपेण उत्तरक्षेत्रसङ्गठनमन्त्रीसंस्कृतभारतीत: श्रीनरेन्द्रमहोदयेन उक्तं यत् सर्वेषां जनानां कृते संस्कृतभाषा अनिवार्यतया वर्तते कारणं यतोहि एतया भाषया एव भारतीयानां भाषाणां संरक्षणं भविष्यति अस्यामेव भाषायां नवशब्दनिर्माणस्य सामर्थ्यं वर्तते ✓✓।।

संस्कृतभारती-पञ्जाबप्रान्तस्य तत्त्वावधाने पटियालाजनपदे 24 दिसंबर त: 31 दिसंबर पर्यन्तं गीताज्ञानमहायज्ञस्य सम्पूर्तिसमारोपणम् अभवत्। कार्यक्रमेऽस्मिन् मुख्यातिथिरूपेण श्रीमान् राजीवकौशलमहोदय:(असि.कमिश्नर जीएसटी) इत्यत: स्वीयव्याख्यानस्य आरम्भ: संस्कृतगणेशवन्दना द्वारा कृतवान् । तेन उक्तं यत् संस्कृतभाषा न केवलं धर्मशास्त्राणां भाषा अपितु योगस्य अपि भाषास्ति। विशिष्टातिथिरूपेण श्रीमान् रविकुमार: अनुमहोदय: पूर्वहिन्दीविभागाध्यक्ष-पञ्जाबीविश्वविद्यालयत: तेन वक्तव्ये उक्तं गीताया: सामाजिक जीवने यत् औचित्यं वर्तते तस्य निरूपणं कृत्वा जनान् गीतां पठितुं प्रेरितवान्। मुख्यवक्तृरूपेण उत्तरक्षेत्रसङ्गठनमन्त्रीसंस्कृतभारतीत: श्रीनरेन्द्रमहोदयेन उक्तं यत् सर्वेषां जनानां कृते संस्कृतभाषा अनिवार्यतया वर्तते कारणं यतोहि एतया भाषया एव भारतीयानां भाषाणां संरक्षणं भविष्यति अस्यामेव भाषायां नवशब्दनिर्माणस्य सामर्थ्यं वर्तते।आगतानामतिथिनां परिचयं एवं च कार्यक्रमस्य वृतान्तं डॉ.वीरेन्द्रकुमार: संस्कृतविभागाध्यक्ष-पञ्जाबीविश्वविद्यालयत: कृतवान्। शिवमन्दिरसमिते: प्रधान: श्री दीपचंदगुप्तमहोदय: अस्य कार्यक्रमस्य अध्यक्षतां कृतवान्। ते संस्कृतभारत्या: धन्यवादज्ञापनं कृतवन्त: यतोहि तेषां सहयोगेनैव गीताज्ञानमहायज्ञस्य आयोजनमभवत्। सप्ताहेऽस्मिन् व्यासरूपेण आगत: डॉ. कपिलदेव:, डॉ.ओमनदीप:, गगनदीप: पाठक:, अमित: अत्रि:, लक्ष्य: शर्मा विदुषान् वस्त्राणि द्वारा सम्मानं कृतवन्त:। विशेषतया ते अस्य कार्यक्रमस्य सूत्रधाररूपेण डॉ.वीरेंद्रकुमारस्य एवं अजयकुमार-आर्यस्य सहमंत्रीपञ्जाबप्रान्तसंस्कृतभारतीत: एतयो: धन्यवादं कृतवन्त:। अस्य कार्यक्रमस्य मञ्चसंचालनं डॉ. रविदत्तशर्मा अकरोत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button