संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
Uncategorizedउत्तराखण्डकण्वनगरीकोटद्वार

निर्धननिकेतनाश्रमे गुरुपूर्णिमामहोत्सवावसरे हरिद्वारे अभवत्सन्तसम्मेलनं विद्वत्सम्मेलनं च

सन्तशिरोमणिषु स्वामिविज्ञानानन्दसरस्वतीमहाराजानाम् च विद्वद्विभूतेषु प्राचार्यचराणां डा.भारतनन्दनचौबेवर्याणां अभिनन्दनं सञ्जातं

हरिद्वारं । हरिद्वारस्थे निर्धननिकेतनाश्रमे गुरुपूर्णिमामहोत्सवावसरे सन्तसम्मेलने विद्वत्सम्मेलने च एकस्य सन्तशिरोमणेः एकस्य विद्वद्विभूतेश्च प्रतिवर्षम् अभिनन्दनं विधीयते।वर्षे$स्मिन् सन्तशिरोमणिरूपेण कनखलस्थश्रीगीताविज्ञानाश्रमस्य परमाध्यक्षाणां तपोनिष्ठानां श्रीमतां स्वामिविज्ञानानन्द- सरस्वतीमहाराजानाम् अभिनन्दनमभवत्। विद्वद्विभूतिरूपेण ऋषिसंस्कृतमहाविद्यालयस्य प्राचार्यचरस्य डॉ०भारतनन्दनचौबेवर्यस्याभिनन्दनं विहितम्। संस्थाध्यक्षैः परमपूज्यैः ऋषिरामकृष्णमहाराजश्रीद्वारा माल्यार्पणेन सहैव उत्तरीयवस्त्रेण, श्लोकबद्धेनाभिनन्दनपत्रेण, सम्मानप्रमाणपत्रेण, गंगाजलपूरितपात्रेण, गौरवसम्मानराशिप्रदानेन च उभौ समलंकृतौ।

अवसरे$स्मिन् गुरुमण्डलाश्रमस्य परमाध्यक्षेण श्रीमता भगवत्स्वरूपस्वामिवर्येण आध्यक्ष्यं विहितम्। डॉ०भारतनन्दनचौबेवर्य: स्वीयवक्तव्ये प्रावोचत् यत् संस्थापकानां परमपूज्यानां प्रातस्मरणीयानां देव्या: अनन्याराधकानां तपोनिष्ठानां ब्रह्मलीन-ऋषिकेशवानन्द- महाराजानां कृपया एवाद्यैतल्लब्धम्। तैर्महानुभावैः पुत्रवद्वात्सल्यं प्रदायैव ममोत्कृष्टशिक्षणव्यवस्था कृतासीद्। अद्य मे मनसि आयाति-“यो$हमस्मि च यत्रास्मि, यथास्मि च यतोस्मि च। तत्सर्वं भवतां नाथ! करुणया हि केवलम्।” इति। सम्प्रति वर्तमानसञ्चालकाः परमश्रद्धेयाः ऋषिरामकृष्णमहाराजवर्या: । अपि च गुरुवर्याणां समग्रान् प्रकल्पान् उत्कृष्टतया अग्रे सरन्ति।बहादराबादे बृद्धगवां संरक्षणार्थम् एका बृहद्गोशाला निर्मिता वर्तत इति। सन्त विभूतिना श्रीमता विज्ञानानन्द- सरस्वतीस्वामिना स्वीयाभिनन्दनाय ऋषिरामकृष्णमहाराजवर्या: बहुप्रसंशिता:।
समरोहे$स्मिन् उत्तराखण्डसं०वि०वि०कुलपतयः प्रो०दिनेशचन्द्रशास्त्री,सहायकनिदेशक: डॉ०बाजश्रवा-आर्य:, डॉ०हरिगोपालशास्त्री, डॉ०ओमप्रकाशभट्टः, डॉ०सतीशकुमारी, डॉ०प्रकाशपन्तः, डॉ०दिनेशचन्द्र पाण्डेयः, डॉ०अजयकौशिकः, आचार्यलक्षमीदत्तचिलकोटी, आचार्यवेणीप्रसादशर्मा, डॉ०चन्द्रभूषणशुक्लः, डॉ०प्रकाशजोशी, डॉ०कुलदीपपन्तः, डॉ०तारादत: अवस्थी, डॉ०रोशनलालगौडः, श्री प्रभुदयालशर्मा, श्री डॉ०वाणीभूषणभट्टः, नेत्रबल्लभकोठारी, श्री जीवनजोशी प्रभृतयः विद्वांश: उपस्थिता: आसन्। सञ्चालनं स्वामिसन्तोषमुनिना विहितम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button