संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वार

गुरुकुलकण्वाश्रमे वसन्तोत्सवे सम्प्राप्त: प्रीतमभरतवाण:, विदुषां समागम: , जायन्ते विविधा: कार्यक्रमा:

परमार्थवैदिकगुरुकुलकणवश्रमे त्रिदिवसीयः वसंतोत्सवकार्यक्रमः आरब्धः यस्मिन् १४ दिनाङ्के मुख्यातिथिः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः डॉ. दिनेशचन्द्रशास्त्री उपस्थितः आसीत् । तै: प्रोक्तं यत् वेदेषु सर्वं विज्ञानं विद्यते । मन्त्रेषु अस्माकं जीवनस्य सर्वस्वं विद्यते । परमार्थनीकेतनस्य महामुनि: पूज्यस्वामी चिदानन्दसरस्वत्या: मार्गदर्शने एवं पूज्यस्वामीविश्वपालजयन्तस्य अध्यक्षतायां वसन्तोत्सवकार्यक्रम: समारभत् । यत्र पद्मश्री तथा जागरणसम्राट् एवं च उत्तराखण्डस्य लोकप्रियगायक: कण्वश्रामवसन्तोत्सवकार्यक्रमे सम्प्राप्त: प्रीतमभरतवाण: गुरुकुलपरिवारेण सह अपि मेलनार्थम् आगतवान् । अवसरेस्मिन् पूज्यस्वामी विश्वपालजयन्तमहाराज:, आचार्य: मनमोहननौटियाल: एवं अरविन्दभट्ट: उत्तरीयवस्त्रेण स्वागतम् एवं अभिनन्दनं कृतवान् ।अत्रापि सः सर्वेषां पुरतः स्वस्य जागरितलोकगायनस्वरस्य प्रदर्शनं कृतवान् । कण्वाश्रमस्य सुन्दरं दृश्यं गुरुकुलस्य वातावरणं च दृष्ट्वा अतीव प्रसन्नः अभवत्। स: पूज्यस्वामिन: आचार्याणां ऋषिकुमाराणां च आशीर्वादमपि प्राप्तवान् ।

द्वितीयदिवसस्य अपि अवसरे वैदिकगुरुकुलमहाविद्यालयस्य परमार्थवैदिकगुरुकुलकण्वाश्रमस्य च परिसरे विविधाः मञ्चकार्यक्रमाः आयोजिताः अभवन्। यस्मिन् उत्तमयोगासनानि अपि गुरुकुलस्य छात्रैः प्रदर्शितानि। कोटद्वारनगरस्य विभिन्नाः विद्यालयाः अपि सांस्कृतिककार्यक्रमाः प्रस्तुतवन्तः । पूज्यस्वामिन: सान्निध्ये आर्षकन्याछात्राभि: अपि उत्कृष्टप्रस्तुति: प्रदर्शिता। श्री पूज्यस्वामी विश्वपालजयन्तवर्येण स्वशुभप्रवचनेषु कथितं यत् वैदिकमार्गस्य अनुसरणं कुर्वन् सत्यस्य अनुसरणं कर्तव्यं।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button